SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३६ किंयत्तत्सर्वैकान्यात्काले दा ॥७२।९५॥ कस्मिन् कदा । यदा । तदा । सर्वदा । एकदा । अन्यदा । सदाधुनेदानींतदानीमेतर्हि ॥७।२।९६॥ एते निपाताः कालेऽर्थे । सद्योऽद्यपरेद्यव्यति ॥७।२।९७॥ एते निपाताः अहि वाच्ये । समानेऽह्नि सद्यः । अस्मिन्नहनि अच । परस्मिन्नहनि परेचवि। पूर्वापराधरोत्तरान्यान्यतरेतरादेधुस् ॥७।२।९८॥ पूर्वेयुः । इत्यादि। उभयाद् धुश्च ॥७२।९९॥ चादेयुस् । उभयस्मिन्नहनि उभयद्युः । उभयेयुः । ऐषमः परुत्परारि वर्षे ॥७॥२॥१०॥ अस्मिन् वर्षे ऐषमः । पूर्वस्मिन् परस्मिन् वा परुत् । पूर्वतरे परतरे वा वर्षे परारि। अनद्यतनेर्हिः ॥७।२।१०१॥ कस्मिन्नमद्यतने काले कर्हि । यहि । तर्हि । अन्यर्हि । एतस्मिन् काले एतर्हि । अमुस्मिन् अमुर्हि । बहुर्हि ।। प्रकारे था ॥७२॥१०२॥ सर्वेण प्रकारेण सर्वथा । यथा । तथा । उभयथा । अन्यथा । कथमित्थम् ॥७॥२।१०३॥ निपातौ । केन प्रकारेण कथम् । अनेन एतेन वा इत्थम् । सङ्ख्याया धा ॥७२॥१०४॥ एकेन प्रकारेण एकधा। द्विधा । त्रिधा । चतुझे । शतधा । बहुधा। गणघा । कतिधा । यावद्धा । तावद्धा। विचाले च ॥७॥२॥१०५॥ विचालो द्रव्यस्य संख्यात्यागः । परसंख्यापत्तिः । एकस्यानेकीभावः । तस्मिन् गम्ये संख्याया धा स्यात् । एको राशिद्वौं क्रियेते द्विधा क्रियते। विधा
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy