SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३५ क्षेपातिग्रहाव्यथेष्वकर्तृस्तृतीयायाः ॥७२॥८५॥ वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः । पापहीयमानेन ॥ ७२॥८६॥ आभ्यां योगेऽकर्तृवाचिनस्तृतीयान्तात्तसुः स्यात् । वृत्तेन पापो वृत्ततः पापः । वृत्तेन हीयते वृत्ततो हीयते । प्रतिना पञ्चम्याः ॥७२॥८७॥ श्रीहरगुरुगतमतः प्रति गौतमतुल्यः । माषानस्मै तिलेभ्यः प्रतियच्छति तिलतः प्रतियच्छति । अहीरुहोऽपादाने ॥७२॥८८॥ तसुर्वा स्यात् । ग्रामतः आगच्छति ग्रामाद्वा । चौरतचौराद्वा विभेति । अहीरुहः इति किम् ? सार्थाद्धीयते । पर्वतादवरोहति । किमद्यादिसर्वाद्यवैपुल्यवहोः पित्तस् ॥७२॥८९॥ किंशब्दाद्वयादिवर्ज सर्वादेरवैपुल्यवाचिनो बहुशब्दाच्च पञ्चम्यास्तस् स्यात् स च पित् । कस्मात्कुतः । सर्वतः । यतः । ततः । बहुतः । अनेन इत्यत्वं स्यात् । इतोऽतः कुतः ॥७२॥९०॥ एते निपाताः । इदमः इतः । एतदः अतः । किमः कुतः । भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात् ॥७२॥९१॥ एतैः समानाधिकरणात्किमद्व्यादीति सूत्रोक्तात्पित्तस् स्यात् । स भवान् । ततो भवान् । तौ भवन्तौ । ततो भवन्तौ । ते भवन्तः इत्यादि सर्वासु विभ क्तिषु ज्ञेयम् । त्रप्च ॥७|२|९२ ॥ प्राग्वदेव विधिः । स भवान् । तत्रभवान् । तौ भवन्तौ । तत्रभवन्तौ । इत्यादिवत् । सप्तम्यां तु तस्मिन् भवति । तत्र भवति । ततो भवति त्रैरूप्यम् । ककुत्रात्रेह ॥ ७|२|९३॥ एते त्रयन्ता निपाताः । सप्तम्याः ॥७/२/९४॥ सप्तम्यन्तात्किमयादीतिसूत्रोक्तात् श्रप् प्रत्ययः स्यात् । कस्मिन् कुत्र । 'सर्वत्र । यत्र । तत्र । बहुत्र । पित्करणात्पुंवद्भावे बह्रीषु बहुत्र ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy