________________
२३४ धर्मशीलवर्णान्तात् ॥७२॥६५॥ मुनिधर्मी । यतिशाली । ब्राह्मणवर्णी ।
बाहूर्वादेर्बलात् ॥७२॥६६॥ बाहुबली।
___ मन्माजादेर्नानि ॥७२॥६७॥ मन्नन्तेभ्य इन् नानि । दामिनी । मान्तेभ्यश्च, प्रथमिनी भामिनी। अन्जादेरपि, अब्जिनी । कमलिनी।
हस्तदन्तकराज्जातौ ॥७॥१८॥ हस्तोऽस्यास्तीति हस्ती । करी।
वर्णाद्ब्रह्मचारिणि ॥७२॥१९॥ वर्णो ब्रह्मचर्यम् । तदस्यास्तीति वर्णी ।
पुष्करादेदेशे ॥७२॥७॥ पुष्करिणी देशः।
प्रकारे जातीयर ॥७२।७५॥ पटुः प्रकारोऽस्य पटुजातीयः।।
षष्ठ्या रूप्यप्चरट् ॥७।२।८०॥ एतौ स्तः । राज्ञो भूतपूर्वोऽश्वो राजरूप्यः । राजचरः।
भूतपूर्व चरट् ॥७२।७८॥ खार्थे । भूतः पूर्व आल्यः आठ्यचरः ।
व्याश्रये तसुः ॥७।२।८१॥ नानापक्षाश्रयेऽर्थे गम्ये षष्ठ्यन्तात्तसुः स्यात् । देवा अर्जुनतः । अर्जुनपक्षे । रविः कर्णतः । कर्णपक्षे।
पर्यभेः सर्वोभये ॥७।२।८३॥ परितः। अभितः ।
आद्यादिभ्यः ॥७॥२॥८४॥ आदितः। मध्यतः । अन्ततः । अग्रतः।