SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३३ तमिस्रार्णवज्योत्स्नाः॥७॥२॥५२॥ निपाताः। गुणादिभ्यो यः ॥७२॥५३॥ गुण्यः पुरुषः । हिम्यः पर्वतः । गुणवान् । हिमवान् । रूपात्प्रशस्ताहतात् ॥७॥२॥५४॥ प्रशस्तं रूपमस्यास्तीति रूप्यो गौः। आहतं रूपमस्त्यस्मिन् रूप्या कार्षापणः । आयादित्यस्य पूर्णोऽवधिः । पूर्णमासोऽण् ॥७॥२॥५५॥ पूर्णमाश्चन्द्रोऽस्यामस्ति पौर्णमासी । गोपूर्वादत इकण ॥७२॥५६॥ गौशतिकः। निष्कादेः शतसहस्रात् ॥७॥२॥५७॥ नैष्कशतिकः। एकादेः कर्मधारयात् ॥७२।५८॥ एका गौरेकगवः । सोऽस्यास्तीत्यैकगविकः । सर्वादेरिन् ॥७।२।५९॥ सर्वं धनं सर्वधनम् । तदस्यास्तीति सर्वधनी। वातातीसारपिशाचात्कश्वान्तः ॥७२६१॥ वातादेरिन्, कश्वान्तः । वातकी। पूरणाद्वयसि ॥७२॥१२॥ पञ्चमो मासोऽस्यास्तीति पञ्चमी यालकः । सुखादेः ॥७२॥१३॥ सुखी। मालायाः क्षेपे ॥७२६४॥ माली। चं. प्र. ३०
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy