________________
उदः स्थास्तम्भः सः ॥१३॥४४॥ उदः परयोः स्थास्तम्भ इत्येतयोः सकारस्य लुक् स्यात् । उत्थानम् । उत्तम्भनम् । उत् ऊध्र्व स्थानमस्य तत्रोत्स्थान एव । नात्र सलुक् । उदो धातुविशेषणात् । उत्स्कन्दतीति उत्कन्दो रोगविशेषः । तत्र पृषोदरादित्वात् सिद्धः सलुक॥
ततो हश्चतुर्थः ॥१३॥३॥ ततस्तृतीयात्पदान्ते वर्तमानात्परस्य हकारस्य पूर्वसवर्णश्चतुर्थी वा स्यात् । वाग हीनः । वाग्धीनः । अज हलौ अज्झलौ । तद् हितम् तद्धितम् ।
प्रथमादधुटि शश्छः ॥१॥३॥४॥ पदान्ते वर्तमानात्प्रथमात्परस्य शकारस्याधुटि परे छो वा स्यात् । वाक् शूरः वाक्छूरः। तद् श्लोकेन, दस्य चवर्गत्वेन जकारे कृते
अघोषे प्रथमोऽशिटः ॥१॥३॥५०॥ शिवर्जितस्य धुटः स्थानेऽघोषे परे प्रथमः स्यात् । तच्श्लोकेन । प्रथमादिति किम् ? प्राङ् शूरः । अधुटीति किम् ? वाक् श्चयोतति ।
तौ मुमो व्यञ्जने स्वौ ॥१३॥१४॥ मोऽनुस्वारः पदान्ते व्यञ्जने परे । त्वम् पचसि त्वं पचसि । त्वम् तरसि । त्वं तरसि । पक्षे मकारस्यानुनासिकोऽपि परस्य स्वः । त्वम्पचसि त्वन्तरसि । नकारस्य लाक्षणिकत्वात् नोऽप्रशान इत्यादिना न सकारः। पदान्ते किम् ? गम्यते । मु इत्यागमस्यापदान्तेऽनुस्वारः स्यादनुनासिको वा । चम् क्रम्यते चंक्रम्यते पक्षे चक्रम्यते । एवं मकारस्यानुस्वारे संयन्ता। अनुनासिके सय्यन्ता । त्वं लोकः त्वल्लोकः । कं वः कव्वः।
शिड्हेऽनुस्वारः ॥१॥३॥४०॥ अपदान्ते म्नां मकारनकाराणां स्थाने शिटि हे च परेऽनुस्वारोऽनु स्यात् । यशान सि यशांसि । नामिति बहुवचनाद बृंहणमित्यत्र णत्वं दंश इत्यादी अत्वं च बाधित्वाऽनेनानुखार एव स्यात् । शिड्रहे इति किम् ? मन्यते। अनु इत्येव । पिण्डि शिण्ढि इत्यादी पिशिषोहों तस्य धित्वे षस्य डत्वे च शिडभावात् नप्रत्ययस्य नकारस्यानुस्वारो न स्यात् ।
म्नां धुर्गेऽन्त्योऽपदान्ते ॥१॥३॥३९॥ अन्विति वर्तते । अपदान्ते म्नां मकारनकाराणां धुट्संज्ञके वर्गे परे तस्यैव