________________
सु इति स्थिते सो रुः (२।१।७२) इति सस्य रुः। तस्य रेफस्य शषसे शषसं वा (१९३६) इति सत्वे नाम्यन्तस्थे (२३३१५) त्यनेन सुपः षत्वे ततोऽनेन पूर्वसस्य षत्वम् । सर्पिष्षु । टवर्गेण पापक्षि । बम्भषि ।
न शात् ॥१॥३॥६२॥ शकारात्परस्य तवर्गस्य चवर्गो न स्यात् । अनाति । विश्नः।।
पदान्तादृवर्गादनानगरीनवतेः॥१॥३॥६३॥
पदान्ते वर्तमानादृवर्गात्परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च यदुक्तं तन्न स्यात् । किमुक्तम् ? तवर्गस्य टवर्गः, सकारस्य षकारः। षड् नयनम्, मधुलिट् तरति । षट् सन्तः । पदान्तारिकम् ? ईहे । अनानगरीनवतेरिति किम् ? षण्णाम् । षण्णगरी । षण्णवतिः ।
षि तवर्गस्य ॥१॥३॥६४॥ पदान्ते वर्तमानस्य तवर्गस्य षकारे परे टवर्गो न स्यात् । तत् षोढा । भवान् षष्ठः।
धुटस्तृतीयः ॥२॥११७६॥ धुटां पदान्ते वर्तमानानां तृतीयः स्यात् । बाक ईशः वागीशः । चित् रूप: चिद्रूपः।
तृतीयस्य पञ्चमे ॥१॥३॥१॥ वर्गतृतीयस्य पदान्ते वर्तमानस्य पञ्चमे परे स्थान्यासन्नोऽनुनासिको वा स्यात् । ङ अ ण न मा अनुनासिकाः । वेति पदान्ते इति अनुनासिक इति चानुवर्तते । एवमन्यत्रापि सापेक्षं पदं सूत्रान्तरादनुवर्तनीयम् । वाग मनः वाङ्मनः। तद् नेत्रं तन्नेत्रम् ।।
प्रत्यये च ॥१॥३॥२॥ पदान्ते वर्तमानस्य तृतीयस्य पञ्चमांदी प्रत्यये नित्यमनुनासिकः स्यात । वाग मयम् वाङ्मयम् । षण्णाम् । ककुद्मन्त इत्यत्र यवादिगणे दस्य निपातः।
लि लौ ॥१॥३॥६५॥ पदान्ते तवर्गस्य लकारे परे आसन्नतया लकारौ स्याताम् । निरनुनासिकस्य स्थाने निरनुनासिकः । सानुनासिकस्य स्थाने सानुनासिकः। तद् लुनाति तल्लुनाति । भवान् लिखति भवॉल्लिखति।
च. प्र.३