SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३० वलिवटितुण्डेर्भः ॥७२॥१६॥ पलिभः । वटिभः। तुण्डिभः । ऊर्णाहंशुभमो युस् ॥७॥२॥१७॥ ऊर्णायुः । उरभ्रः । अहंयुः, अहङ्कारी । शुभंयुः कल्याणबुद्धिः। कंशंभ्यां युस्तियस्तुतवमम् ॥७॥२॥१८॥ कंयुः । शंयुः । कन्तिः । शन्तिः। कंयः । शंयः । कन्तुः । शन्तुः। कन्तः। शन्तः । कवः । शवः । कम्भः । शम्भः । बलवातदन्तललाटादूलः ॥७॥२॥१९॥ वातूलः। ललाटूलः । मतुश्च । प्राण्यङ्गादातोलः ॥७॥२॥२०॥ चूडालः । जङ्घालः । शिखालः। चूडावान् । सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥७॥२॥२१॥ सिध्मान्यस्य सन्ति सिध्मवान् । गडुलः । गड्डुमान् । प्रज्ञापर्णोदकफेनाल्लेलौ॥७॥२॥२२॥ प्रज्ञालः । प्रज्ञिलः । प्रज्ञावान् । पर्णलः । पर्णिलः । पर्णवान् । कालाजटाघाटात्क्षेपे ॥७॥२॥२३॥ कालालः । कालिलः । काडालः । काडिलः । जटाला । जटिलः । घाटालः। घाटिलः । क्षेपे मतुन । वाच आलाटौ ॥७॥२॥२४॥ क्षेपे वा । वाचालः । वाचाटः । मतुन । ग्मिन् ॥७॥२॥२५॥ वाचो मत्वर्थे । वाग्मी वाग्वान् । (वाग्मान्) । गकारः प्रत्यये चेत्यनुनासिकनिवृत्त्यर्थः। मध्वादिभ्यो रः ॥७२॥२६॥ मधुरः । मधु स्वाद्वर्थे । गुणे तु मधुरं क्षीरम् । कृष्यादिभ्यो वलच् ॥७॥२॥२७॥ कृषीवल।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy