SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२६ पित्तिथटू बहुगणपूगसङ्घात् ॥७१११६०॥ संख्यापूरणे तिथद, स च पित् । बहूनां पूरणो बहुतिथः । बहूनां पूरणी बहुतिथी । पित्करणं पुंवद्भावार्थम् ।। अतोरिथट् ॥७॥११६१॥ अवन्तात्सङ्ख्याशब्दात्पूरणे इथट् स च पित् । नात्र डट् । इयतां पूरण इयतियः । इयतिथिः । कियतिथः । कियतिथी। षट्कतिकतिपयात्थट् ॥७११६२॥ स च पित् । षण्णां पूरणः षष्ठः । षष्ठी। कतिथः । कतिथी। चतुरः ७१।१६३॥ थट् । चतुण्णां पूरणचतुर्थः ।। येयौ च लुक् च ॥७॥१११६४॥ चतुरशब्दात्पूरणे य ईय एतौ स्तः, चकारलुक् । तुर्यः । तुरीयः । द्वेस्तीयः ॥७।१।१६५॥ वयोः पूरणो द्वितीयः । द्वितीया। त्रेस्तृ च ॥७॥१६६॥ त्रिशन्दात्पूरणे तीयः । तद्योगे त्रि इत्यस्य त इत्यादेशः । तृतीयः । पूर्वमनेन सादेश्चन् ॥७११६७॥ पूर्वमितिक्रियाविशेषणाद्वितीयान्तात्केवलादथ वा सपूर्वाचानेनेति तृती. यार्थे कर्तरि इन् स्यात् । पूर्वमनेन पूर्वी । पूर्विणौ । पूर्वी कटम् । सपूर्वात्, कृतं पूर्वमनेन कृतपूर्वी कटः। इन्द्रियम् ॥७॥१७४॥ निपातोऽयम् । इन्द्र आत्मा तल्लिङ्गमिन्द्रियम् । तेन वित्ते चञ्चुचणौ ॥७११७५॥ विद्यया वित्तो ज्ञातो विद्याचक्षुः । विद्याचणः । धनहिरण्ये कामे ॥७॥१११७८॥ का प्रत्ययः स्यात् । धनकामो धनकः चैत्रस्य । स्वाङ्गेषु सक्ते॥७।१।१८०॥ केशोषु सत्ता केशकः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy