________________
২২৫ यत्तदेतदोर्डावादिः ॥७१११४९॥ यत्तदेतद्यः प्रथमान्तेभ्यो मानवृत्तेः षष्ठ्यर्थे मेयेऽतुप्रत्ययः। स च डावादिः। यत्परिमाणमस्य यावान् । एतावान् ।
यत्तत्किमः संख्यायां डतिर्वा ॥७।१।१५०॥
एभ्यः संख्यामानवृत्तिभ्यः षध्यर्थे संख्येये मेये डतिर्वा स्यात्। पक्षेऽतुः। या संख्या मानमेषां यतिः । सा संख्या मानमेषां ततिः । यावन्तः । तावन्तः। का संख्या मानमेषां कति । कियन्तः।
अवयवात्तयट् ॥७।१।१५१॥ अषयवार्थे संख्यानानः प्रथमान्तात्षष्ठ्यर्थेऽचयविनि तयट् स्यात्। चत्वारोऽषयवा अस्यां चतुष्टयी । सप्ततयी । द्वितयी।
द्वित्रिभ्यामयड़ा ॥७१।१५२॥ द्वौ अवयवौ तद्वयम् । त्रयम् ।
ध्यादेर्गुणान्मूल्यकेये मयः ॥७।१।१५३॥ द्वौ गुणौ मूल्यमस्य क्रेयस्य द्विमयम् । एवं त्रिमयम् । । अधिकं तत्सङ्ख्यमस्मिन् शतसहस्से श
तिशद्दशान्ताया डः ॥७।१।१५४॥ विंशतिरधिका अस्मिन् योजनशते तद्विंशयोजनशतम् ।
संख्यापूरणे डट् ॥७।१।१५५॥ एकादशानां पूरण एकादशः । द्वादशः । त्रयोदशः । स्त्री चतुर्दशी।
विंशत्यादेवा तमद ॥७॥१॥१५६॥ पक्षे उट् । विंशतेः पूरणो विंशतितमः । विंशः। शतादिमासार्द्धमाससंवत्सरात् ॥७१११५७॥ शतस्य पूरणः शततमः । मासतमो दिवसः। संवत्सरतमो मासः ।
षष्ट्यादेरसङ्घयादेः ॥७।१।१५८॥ षष्टेः पूरणःषष्टितमः । असंख्यादेरिति किम् ? एकषष्टितमः । पक्षे एकषष्टः।
नो मद् ॥७१११५९॥ नान्तशब्दान्मट् । पश्चानां पूरणः पञ्चमः । सप्तमः । नवमः । दशम।
चं. प्र. २९