________________
२२४
तदस्य सञ्जातं तारकादिभ्य इतः ॥ ७|१|१३८ ॥
तारकाः सञ्जाता अस्य तारकितं नभः । पुष्पितस्तरुः ।
गर्भादप्राणिनि ॥ ७|१|१३९॥
गर्भः सञ्जात एषां गर्भिताः शालयः । अप्राणिनीति किम् ? गर्भः सञ्जातोऽ त्या दास्या इति वाक्यमेव ।
प्रमाणान्मात्र ॥७१॥१४०॥
जानुनी प्रमाणमस्य जानुमात्रं जलम् ।
हस्तिपुरुषाद्वा ॥ ७|१|१४१ ॥
हस्ती प्रमाणमस्य हास्तिनम् । हस्तिमात्रम् ।
वो दघ्नट् द्वयसट् ॥७१॥१४२॥
ऊर्द्धप्रमाणवाचिनो नाम्नः षष्ठ्यर्थे एतौ स्तः । पक्षे मात्रट् । करुः प्रभावत्व ऊरुद्रमम् । ऊरुद्रयसम् ।
मानादसंशये लुप् ॥७१॥१४३॥
द्वौ हस्तौ प्रमाणमस्य द्विहस्तः । द्विवितस्तिः ।
शन्शद्विशतेः ॥ ७|१|१४६॥
शन्नन्तादन्ताच संख्याशब्दाद्विशतेश्च मानवृत्तेः प्रथमान्तात्षष्ठ्यर्थे संशये गम्ये मात्रट् स्यात् । डितोऽपवादः । दश मानमेषां स्यादशमात्राः । विंशतिमात्राः ।
डिन् ॥७|१|१४७॥
संशय इति निवृत्तम् । प्राग्वत् । पञ्चदशाहोरात्राः प्रमाणमस्य पश्चदशी अर्धमासः । पश्चदशिनी । पश्चदशिनः । एवं त्रिंशी । त्रिंशिनौ । त्रिंशिनो मासाः । विंशिनो भवनेन्द्राः । डिन् प्रत्ययः ।
इदं किमोतुरियकिय चास्य ||७|१|१४८ ॥
इदंशब्दात्किमशब्दाच्च तदिति प्रथमान्तान्मानवृत्तेः षष्ठ्यर्थे मेयेऽतुप्रत्ययः स्यात् । तथोगे द्वयोः इयू किय इत्यादेशौ स्तः । इदं मानमस्य इयान् पटः । किं मानमस्य कियान् पदः । इयती । कियती ।