________________
२२२
यथाकामानुकामात्यन्तं गामिनि ॥७१॥१०॥ यथाकामं गामी यथाकामीनः । अनुकामीनः । अत्यन्तीनः ।
पारावारं व्यस्तव्यत्यस्तं च ॥७॥१११०१॥ गामीत्यर्थे ईनः। पारावारं गामी पारावारीणः । पारीणः । अवारीणः । अवारपारीण।
अध्वानं येनौ ॥७॥१११०३॥ अध्वानमलङ्गामी अध्वन्यः । अध्वनीनः ।
अभ्यमित्रमीयश्च ॥७॥१०४॥ अभ्यमित्र्यः अभ्यमित्रीणः । चायेनौ । अभ्यमित्रीयः । समांसमीनाद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम्
॥७।१।१०५॥ समांसमीनादयो निपाताः। समां समां गर्भ धारयतीति समांसमीना गोः । तस्य तुल्येकः संज्ञाप्रतिकृत्योः ॥७॥१०८॥ अश्वतुल्यः अश्वकः वृषभः । अश्वक रूपम् । अश्विका प्रतिमा।
न नृपूजार्थध्वजचित्रे ॥७।१।१०९॥ चश्चातुल्यः पुरुषः चश्चा। नात्र कप्रत्ययः। पूजार्थेपि न । अहंतस्तुल्यं बिम्बम् । एवं ध्वजादिषु न प्रत्ययः।
शाखादेर्यः ॥७११११४॥ शाखातुल्यः शाख्यः।
कुशाग्रादीयः ॥७११११६॥ कुशाग्रीया क्षुरिका । बुद्धिरपि तीक्ष्णत्वात् ।
शर्करादेरण ॥७।१।११८॥ शर्करायास्तुल्यं शार्करं दधि।
अः सपत्न्याः ॥७॥११११९॥ सपल्यास्तुल्यः सपलः।