________________
२१९
सखिवणिग्दूताद्यः ॥ ७|१|६३ ॥
सख्युर्भावः कर्म वा सख्यम् । सखित्वम् । सखिता । वणिज्यम् । दूत्यम् । वाणिज्यमपि राजादित्वात् । दौत्यम् ।
स्तेनान्नलुक् च ॥७१॥६४॥
॥७१॥६५॥
स्तेनस्य भावः स्तेयम् ।
कपिज्ञातेरेय
पेर्भावः कर्म वा कापेयम् । ज्ञातेयम् ।
प्राणिजातिवयोऽर्थादञ् ॥ ७|११६६ ॥
अश्वस्य भावः कर्म वा आश्वम् । अश्वत्वम् । अश्वता ।
युवादेरन् ॥७११६७॥
यूनो युक्तेर्वा भावः कर्म यौवनम् । चौरादिपाठात् चौवतिका । हायनान्तात् ॥७१॥६८॥
भावे कर्मणि च अण् । द्वैहायनम् । त्रैहायनम् । पक्षे त्वतलो ।
वृवर्णालुघ्वादेः ॥७१॥६९॥
लघुरादिः समीपो यस्य ईदृशे इवर्णोवर्णान्त ऋवर्णान्तश्च शब्दस्तस्माद्भावे कर्मणि चाण् स्यात् । स्वतलौ । शुचेर्भावः कर्म वा शौचम् । शुचित्वम् । शुचिता । शकुनेः शाकुनम् । मुनेर्मोनम् । लघ्वादेरिति किम् ? पाण्डुकम् ।
पुरुषहृदयादसमासे ॥७१॥७०॥
पौरुषम् | हार्दम् । समासे तु परमपुरुषत्वम् ।
श्रोत्रियाद्यलुक् च ॥७१॥७१॥
भावे कर्मणि च । तद्योगे यलुक् स्यात् । त्वतलौ । श्रोत्रियस्य भावः कर्म या श्रोत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । चौरादित्वात् श्रोत्रियकमपि ।
॥७१॥७२॥
योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ्
त्रिप्रभृतीनामन्त्यमुत्तमम् । तत्समीपमुपोत्तमम् । तद्गुरुर्यस्य तस्माद्यकारोपान्यात्सुप्रख्यवर्जिताद्भावे कर्मणि चाकञ् स्यात् । त्वतली । रमणीयस्य भावः कर्म वा रामणीयकम् । औपाध्यायकम् । आचार्यकम् ।