________________
२१८
तस्य ||७|१|५४॥
षष्ठ्यन्तादिवार्थे यत् । चैत्रस्येव मैत्रस्य गावश्चैत्रवत् ।
भावे त्वतल ॥७|११५५॥
तस्येति षष्ठ्यन्ताद्भावे एतौ स्याताम् । शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गो भेदको गुणो भावः । प्रकृतिजन्यबोधे प्रकारो भावः इति दीक्षितः ।
प्राक्त्वादगडुलादेः ॥७१॥५६॥
ब्रह्मणस्व इति सूत्रं यावत् त्वतलोरनुवृत्तिर्ज्ञेया । गड्डुलादिवर्ज नस्तत्पुरुषादबुद्ध्यादेः । न शुक्लः अशुक्लः । तस्य भावोऽशुक्लत्वम् । अशुक्लता । बुधादौ तु न बुधबुधस्तस्य भावः कर्म वा आवुष्यम् । आचतुर्थ्यम् ।
I
पृथ्वादेरिमन्वा ॥ ७२११५८ ॥
थोर्भावः प्रथिमा । पृथुस्वम् । पृथुता । वावचनादणादिः । पार्थिवम् । नदिमा । मृदुत्खम् । मृदुता । मार्दवम् । पृथुमृदु इत्यादिना रः ।
वर्णदृढादिभ्यष्टयण् च वा ॥ ७|११५९ ॥
शुक्लस्य भावः शौक्ल्यम् । शुक्लिमा । शुक्लत्वम् । शुक्लता । शितेर्भावः शितिमा । शितित्वम् । शितिता । शैत्यम् । वावचनाद् वृवर्णान्तस्य पाश्चरूप्यम् । दाम् । द्रढिमा । दृढत्वम् । दृढता । अर्हतो भावः कर्म वा आर्हन्त्यम् ङी चेदाइन्ती । एवमौचिती ।
पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥ ७|११६०॥
अधिपतेर्भाव आधिपत्यम् । अघिपतित्वम् । अधिपतिता । कर्मण्यपि । आघिराज्यम् । अधिराजता । एवं सौराज्यम् । द्रव्याश्रयी गुणोऽङ्गनिमित्तं येषां ते गुणाङ्गाः । मौख्यम् । मूढता । मूढत्वम् । वैदुष्यम् । राजत्वम् । राजता । काव्यम् । कविता | कवित्वम् ।
अर्हतस्तो न्त च ॥७|१|६१॥
अर्हतः षष्ठ्यन्ताद्भावे कर्मणि व्यण् स्यात् । तद्योगे तकारस्य न्त इत्यादेशः । अरिहननाद्रजोहननाद्रहस्याभाषाचार्हन् पृषोदरादित्वात् । यद्वा चतुस्त्रिंशतमतिशयान् इन्द्रादिकृतां पूजामर्हन् तस्य भावः कर्म वा आर्हन्त्यम् । अर्हत्त्वम् । अर्हन्ता ।
सहायाद्वा ॥७१॥६२॥
सहायस्य भावः कर्म वा सहाय्यम् । साहायकम् । योपान्त्यलक्षणोऽकञ् ।
सहायता ।