SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१६ कम्बलान्नानि ॥७॥१॥३४॥ और्णापलशतं परिमाणं कम्बलोऽस्य स्यात् कम्बल्या। तस्मै हिते ॥७॥३५॥ वत्सेभ्यो हितं वत्सीयम् । पित्रीयः। न राजाचार्यब्राह्मणवृष्णः ॥७॥॥३६॥ एभ्यो हितार्थेऽधिकृतः प्रत्ययो न स्यात् । राज्ञे हितमिति वाक्यमेव । प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषाद्यः॥७॥१॥३७॥ दन्तेभ्यो हितं दन्त्यम् । चक्षुष्यम् । कण्व्यम् । नाभ्यम् । अव्यजात्थ्यप् ॥७॥३८॥ अविभ्यो हितमविथ्यम् । अजेभ्यो हितमजथ्यम् । चरकमाणवादीनञ् ॥७॥१॥३९॥ परकेभ्यश्चारकीणः । माणवीनः। भोगोत्तरपदात्मभ्यामीनः ॥७॥१॥४०॥ मातृभोगाय हितो मातृभोगीणः । पितृभोगीणः । आत्मने हित आत्मनीनः। अनात्मनीनः।। ईनेऽध्वात्मनोः ॥७॥४॥४८॥ नान्त्यखरादिलोपः। पञ्चसर्वविश्वाजनात्कर्मधारये॥७॥१॥४१॥ एभ्यो हितेऽर्थे ईनः । नात्रेयः । पञ्चजनेभ्यो हितः पञ्चजनीनः । रथकारपधर्म वा चातुर्वयं पञ्चजनः । एवं सर्वजनीनः । धर्म अकर्मधारये वा ॥ पशानां जनः पञ्चजनः । तस्मै हितः पञ्चजनीयः। महत्सवोंदिकण् ॥७॥१॥४२॥ महते जनाय हितो माहाजनिकः । सर्वाण्णो वा ॥७॥१॥४३॥ सर्वस्मै हितः सार्वः । पक्षे ईयः । सर्वीयः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy