SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१३ योऽलङ्कारमणिबभूव वशिनां सौमित्रिनामा जिनो, योऽलङ्कारमणीचकार भजनात्सौमित्रिमेवाख्यया। ब्रह्मानन्दनमेव पादविलुठच्छीकच्छपं मानसे, ब्रह्मानन्दनतीर्थपं प्रणिदधे जन्मोदधेस्तारकम् ॥१॥ यः ॥७॥१॥ अधिकारसूत्रम् । वहतिरथयुगप्रासङ्गात् ॥७॥१॥२॥ एभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः । द्वौ रथी वहति द्विरथ्यः । युगं वहति युग्यः । प्रासङ्गो वत्सदमनकाष्ठम् वहति प्रासङ्ग्यः । धुरो यैयण ॥७॥१॥३॥ धुः। धौरेयः। वामाद्यादेरीनः ॥७१॥४॥ वामा पूर्वामधुरा । समासान्तादाप् । तां वहति वामधुरीणः । सर्वधुरीणा अश्चैकादेः ॥७॥५॥ एकशब्दादुरन्ताद्वहत्यर्थे अः स्यात् । चकारादीनश्च । एका एकस्य वा धूः एकधुरा । तां वहति एकधुरः । एकधुरीणः। हलसीरादिकण ७१६॥ हलं वहति हालिकः । सैरिकः । शकटादण ॥७॥१७॥ शकटं वहतीति शाकटो गौः । द्वयोः शकव्योर्वोदा द्विशकटः । द्वे शकटे वहति द्वैशकटः। विध्यत्यनन्येन ॥७॥१८॥ पादौ विध्यन्ति पद्याः शर्कराः। धनगणाल्लुब्धरि ॥७॥१९॥ धनं लब्धा धन्यः । गणं लब्धा गण्यः । णोऽन्नात् ॥७॥१॥१०॥ अग्नं लब्धा आन्नः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy