SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१२ स्तोमे डट् || ६|४|१७६॥ ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः । विंशः । पञ्चविंशः । त्रिंशः । तमर्हति ॥ ३ | ४ | १७७॥ इत्यर्थे यथायोगं प्रत्ययाः । श्वेतच्छत्रमर्हति श्वेतच्छत्रिकः । वैषिकः । शत्यः । शतिकः । साहस्रः । दण्डादेर्यः ||६|४|१७८॥ अर्हत्यर्थे । दण्डमर्हति दण्ड्यः । यज्ञादियः ||६|४|१७९॥ यज्ञमर्हति यज्ञियो देशो यजमानो वा । पात्रात्तौ ॥६।४।१८०॥ पात्रमर्हति पात्रयः । पात्रियः । दक्षिणाकटङ्गरस्थालीबिलादीययौ ॥६|४|१८१ ॥ दक्षिणादेरययौ । दक्षिणामर्हति दक्षिणीयो दक्षिण्यो वा गुरुः । कडङ्गरीयः कङ्गयों वा गौः । कडङ्गरं भाषादिकाष्ठम् । छेदादेर्नित्यम् ||६|४|१८२॥ छेदं नित्यमर्हति च्छेदिकः । भैदिकः । विरागादिरङ्गश्च ॥ ६|४|१८३॥ नित्यं विरागमर्हति वैरङ्गिकः । शीर्षच्छेदाद्यो वा ॥ ६|४|१८४॥ शीर्षच्छेद्यः । शीर्षच्छेदिकः चौरः । शालीन कौपीनार्त्विजीनम् || ६ |४|१९८५ ॥ शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपप्रवेशमर्हति कौपीनः । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे चीवरखण्डेऽस्ति । ऋत्विजमर्हति आर्लिंजीनो यजमानः । ऋतुमुद्दिश्य जिनपूजाकरः । इति येोऽधिकारः ॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy