SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २११ तं पचति द्रोणाद्वाञ् ॥६।४:१६१॥ पक्षे इकण | द्रोणं पचति द्रौणः । द्रौणिकः । द्रौणिकी स्थाली गृहिणी वा । द्वौ द्वौ द्रोणी पचति द्विद्रोणी । अनाम्न्यद्विः प्लुप इत्यत्रिकणोर्लुए । सम्भवदवहरतोश्च ॥ ६|४|१६२ ॥ प्रस्थं पचति सम्भवति अवहरति प्रास्थिकः कदाहः । प्रास्थिकी स्थाली । वंशादेर्भाराद्धरद्वहदावहत्सु ||६|४|१६६ ॥ वंशभारं हरति वहति आवहति वा वांशभारिकः । वंशान् हरति वहति या वांशिकः । सोऽस्य भृतिवस्त्रांशम् ॥ ६|४|१६८ ॥ पञ्चास्य वृत्तिवेतनं पञ्चकः कर्मकरः । पञ्चास्य वस्लं नियतकालक्रयमूल्यं पञ्चकः पटः । पञ्चात्यांशाः पञ्चकं नगरम् । मानम् ||६|४|१६९॥ 1 सोऽस्येति वर्तते । प्रस्थो मानमस्येति प्रास्थिको राशिः । जीवितस्य सन् || ६|४|१७०॥ इति वचनादनाम्न्यद्विः प्लुविति प्राप्तावपि लुप् न स्यात् । षष्टिर्जीवनमा - नमस्य षाष्टिकः । साप्ततिकः । वार्षशतिकः । संख्यायाः संघसूत्रपाठे || ६|४|१७१ ॥ । पश्च गावो मानमस्य पञ्चकः सङ्घः । अष्टावध्यायामानमस्याष्टकं सिद्धहैमम् । अष्टौ रूपाणि मानमस्याष्टकः पाठोऽधीतः । नाम्नि || ६|४|१७२॥ पश्च संख्या मागं येषां ते पञ्चकाः शकुन्तयः । विंशत्यादयः ||६|४|१७३॥ तस्येदं मानमित्यर्थे निपाताः । द्वेदेशदर्थे विभावः, शतिप्रत्ययः । द्वौ दशतौ मामेषां सङ्ख्यानां घटादीनां विंशतिः । स्त्रिभावः शत्प्रत्ययः । त्रयोदशतो मागमेषां त्रिंशत् । चत्वारिंशत् शास्त्राणि । पञ्चदशद्वर्गे वा ॥ ६|४|१७५॥ fountant | पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः । पञ्चको वर्गः । दशद्वर्गः । दशको वर्गः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy