SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०९ त्रिंशद्विशतेर्डकोऽसंज्ञायामाहदर्थे ॥६॥४॥१२९॥ त्रिंशता क्रीतं त्रिंशकम् । विंशत्या क्रीतं विंशकम् । त्रिंशतमर्हति त्रिंशकः। विंशकः। संख्याडतेश्वाशत्तिष्टेः कः ॥६।४।१३०॥ शदन्तत्यन्तष्ट्यन्तवर्जसंख्याया डतिप्रत्ययान्ताच त्रिंशविंशतिभ्यामाईदर्थे कः प्रत्ययः स्यात् । द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । बहुकम् । गणकम् । यावत्कम् । तावत्कम् । कतिभिः क्रीतं कतिकम् । त्रिंशत्कम् । विंशतिकम् । शतात्केवलादतस्मिन्येकौ ॥६।४।१३१॥ कापवादौ अस्मिन् स चेदर्थो वस्तुतः प्रकृत्यर्थादभिन्नो न स्यात् । शतेन क्रीतं शतिकम् । अर्हति शत्यः । शतिकः । शतं वर्षाणि मानमस्य शत्यः। शतिकः। केवलादिति किम् ? घुत्तरं शतं तेन क्रीतो द्विशतिकः। अतस्मिन्निति किम् ? शतं मानमस्य शतकं स्तोत्रम् । वातोरिकः ॥६।४।१३२॥ अखन्तायाः संख्याया आर्हदीद योऽर्थों वक्ष्यते तस्मिन्निकप्रत्ययो वा स्यात् । यावतिकम् । यावत्कम् कंसार्द्धात् ॥।४।१३५॥ आईदर्थे इकट् । कंसकम् । कंसकी। सहस्रशतमानादण् ॥६।४।१३६॥ आहेदर्थन केकणौ । सहस्रेण क्रीतः साहस्रः। शतमानेन शातमानः। शूपाद्वाऽञ् ॥६।४।१३७॥ आहेदर्थेनेकण् । शौर्पम् । पक्षे शौर्पिकम् । वसनात् ॥।४।१३८॥ वसनशब्दादाहदर्थे । वसनेन क्रीतं वासनम् । विंशतिकात् ॥ ।४।१३९॥ विशतिकशब्दादाहदर्थेऽञ् स्यात् । विंशतिर्मानमस्य विंशतिकम् । तेन क्रीतं वैशतिकम् । संख्याडतेरिति कः। द्विगोरीनः ॥४॥१४०॥ विशतिकशब्दादादर्थे इनः प्रत्ययः स्यात् । द्विविंशतिकीनम् । चं. प्र. २७
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy