SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०८ प्राणिनि भूते || ३ | ४|११२ ॥ वर्षशब्दान्ताद्विगोर्भूतेऽर्थेऽप्रत्ययः स्यात् । स चेद्भूतः प्राणी स्यात् । द्वे वर्षे भूतो द्विवर्षो दारकः । त्रिवर्षो वत्सः । अप्राणिनि, द्विवर्षो द्विवर्षीणो द्विवार्षिकः सरकः । भूत इति किम् ? शेषार्थचतुष्टये विकल्प एव । द्विवर्षः । द्विवर्षीणः । द्विवार्षिको मनुष्यः । नित्योऽयं विधिः । मासाद्वयसि यः || ६|४|११३॥ द्विगोः । द्वौ मास भूतो द्विमास्यो दारकः । वयसीति किम् ? द्वैमासिको नायकः । भूत इत्येव । द्वौ मासौ भावी द्वैमासिको युवा । सोऽस्य ब्रह्मचर्यतद्वतोः ||६|४|११६ ॥ प्रथमान्तात् कालवाचिनोऽस्येति षष्ठ्यर्थे इकण् स्यात् ब्रह्मचर्ये तद्वति च वाच्ये । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् | सांवत्सरिकम् । मासिको ब्रह्मचारी । प्रयोजनम् ||६|४|११७॥ सोऽस्येति वर्तते । जिनमहः प्रयोजनमस्य जैनमहिकं नृत्यम् । स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ||६|४|१२३ ॥ स्वर्गः प्रयोजनमस्य स्वर्ग्यम् | यशस्यम् | आयुष्यम् । धन्यम् । स्वस्तिवाचनादिभ्य इकणो लुप् । स्वस्तिवाचनं प्रयोजनमस्य स्वस्तिवाचनम् । समयात्प्राप्तः ॥६|४|१२४॥ सोऽस्येत्यनुवर्तनीयम् । समयः प्राप्तोऽस्य सामयिकः स्वाध्यायः । ऋत्वादिभ्योऽण् ||६|४|१२५॥ ऋतुः प्राप्तोऽस्य आर्तवं पुष्पं फलम् । काल्पस्तापसः । कालाद्यः ||६|४|१२६॥ दीर्घः ||६|४|१२७ ॥ hraiser कालिकमृणम् । कालिकी सम्पत् । इण । I
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy