________________
२०७
कर्मवेषाद्यः ||६|४|१०३॥
कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः ।
कालात्परिजय्य लभ्य कार्य्यसुकरे ||६|४|१०४ ॥
कालवाचिनः शब्दात्परिजेयलभ्ये कार्य्यं सुकरे चार्थे इकण । परितो जेतुं शक्यं परिजय्यम् । मासेन परिजय्यो मासिकः शत्रुः । संवत्सरेण कार्य्यं सांवत्सरिकम् । मासेन सुकरो मासिकः प्रासादः ।
निर्वृत्ते || ६|४|१०५ ॥
अहा निर्वृत्तमाह्निकम् | सांवत्सरिकम् ।
तं भाविभूते ||६|४|१०६॥
मासं भूतो मासं भावी उत्सवो मासिकः । मासं भूतो मासिको योगः ।
तस्मै भृताधीष्टे च ॥६॥४॥१०७॥
तादर्ध्य चतुर्थ्यन्तकालवाचिशब्दाद्भृतेऽधीष्टे चार्थे इकण । मासाय भृतो वेतनेन क्रीतो मासिकः कर्मकरः । मासायाधीष्ट उपाध्यायो मासिकः । मासमध्यापनीयोऽधीष्ट इत्यर्थः । एवं वार्षिकः । सांवत्सरिकः ।
समाया ईनः || ६|४|१०९॥
निर्वृत्तभूतभाविभृताधीष्टमास शब्दात्पञ्चखर्थेषु ईनः स्यात् । समया निर्वृत्तः समाभूतो भावी वा समायै भृतोऽधीष्टो वा समीनः ।
रात्र्यहः संवत्सराच्च द्विगोर्वा ||६|४|११० ॥
एतदन्तात्समास शब्दाच द्विगोर्निर्वृत्तादिपञ्चकविषये ईनः । द्वाभ्यां रात्रिभ्यां निर्वृत्तो द्विरात्रीणः । द्व्यहीनः । द्विसमीनः । पक्षे द्वैरात्रिकः । इक । वर्षादश्च वा || ६ |४|१११॥
वर्षशब्दान्ताद्विगोरर्थपञ्चकेऽप्रत्ययः स्यात् ईनस्य वा । पक्षे इकण । द्वाभ्यां वर्षाभ्यां निर्वृतो द्विवर्षः, द्विवर्षीणः, द्विवार्षिक इति त्रैरूप्यम् । एवं भूतभाव्यटभृतार्थे । तत्रापि भाविनि न वृद्धिरिति शेषः ।
संख्याधिकाभ्यां वर्षस्याभाविनि ॥ ७|४|१८ ॥
संख्याशब्दादधिकशब्दात् परस्य वर्षशब्दस्य व्णिति तद्धिते खरे स्वादेः स्वरस्य वृद्धिः स्यात् नतु भाविन्यर्थे । भाविनि द्वैवर्षिकं धान्यम् । द्वैवर्षिक उत्सवः ।