SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ गोदानादीनां ब्रह्मचर्ये ॥६॥४॥८॥ इकण् । गोदानस्य ब्रह्मचर्य गौदानिकम् । देवव्रतादीन् डिन् ॥६॥४॥८३॥ देवव्रतं चरति देवव्रती । महाव्रती। डकश्वाष्टाचत्वारिंशतं वर्षाणाम् ॥६।४।८४॥ वर्षाणां सम्बन्धिनोऽष्टाचत्वारिंशच्छब्दातवृत्तेश्चरत्यर्थे डः स्यात् चाड्डिन् । अष्टचत्वारिंशद्वर्षाणां व्रतमष्टाचत्वारिंशत् चरति अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी। चातुर्मास्यन्ती यलुक् च ॥६॥४॥८५॥ चतुर्मासशब्दा व्रतवृत्तेश्चरतीत्यर्थे तो डकडिनौ स्याताम् । यलोपश्च । चतुर्यु मासेषु भवानि यज्ञेज्य इतिज्यः । चातुर्मास्यानि नाम यज्ञाः । तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः । चातुर्मासी। तद्यात्येभ्यः ॥६।४।८७॥ इकण् । कोशशतं याति क्रौशशतिकः । यौजनिको दूतः। पथ इकट् ॥६॥४॥८८॥ पन्धानं याति पथिकः । द्वौ पन्थानौ याति द्विपथिकः । नित्यं णः पन्थश्च ॥६।४।८९॥ पन्थानं नित्यं याति । पथिन् शब्दस्य पन्थ आदेशः । पान्थः । पान्या स्त्री। तस्मै योगादेः शक्ते ॥६।४।९४॥ इकण् । योगाय शक्तो यौगिकः । सान्तापिकः।। __ योगकर्मभ्यां योकौ ॥४।९५॥ योगाय शक्तो योग्यः । कर्मणे शक्तं कार्मुकम् । तेन हस्ताद्यः ॥।४।१०१॥ हस्तेन देयं कार्य वा हस्त्यम् । शोभमाने ॥४॥१०२॥ वस्त्रेण शोभमान वास्त्रिकं वपुः । कौण्डलिक मुखम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy