________________
२०५
नवयज्ञादयोऽस्मिन्वर्तन्ते ||६|४|७३ ॥
अत्रार्थे इकण | नावयज्ञिकः । पाकयज्ञिकः ।
तत्र नियुक्ते || ३ | ४|७४ ॥
इत्यर्थे इक । द्वारे नियुक्तो दौवारिकः । द्वारादेः || ७|४|६||
द्वार इत्येवमादेवी तत्समीपस्य खरेष्वादेः स्वरस्य वृद्धिप्रसङ्गे ताभ्यां प्रादौती स्वाताम् ।
देवागारिकः ।
अगारान्तादिकः ||६|४|७५ ॥
अदेशकालादध्यायिनि ॥ ६ |४| ७६ ॥
आशुचावध्यायी आशुचिकः । अकाले सान्ध्यकः ।
निकटादिषु वसति ॥६४॥७७॥
free वसति नैकटिकः । आवसधिकः ।
सतीर्थ्यः ||६|४|७८॥
निपातोऽयम् | तीर्थमत्र गुरुः । समानतीर्थे वसति सतीर्थ्यः ।
प्रस्तारसंस्थान तदन्तकठिनान्तेभ्यो व्यवहरति ||६|४|७९॥
प्रस्तारादेर्व्यवहरतीत्यर्थे इकण । प्रस्तारे व्यवहरति प्रास्तारिकः ।
सङ्ख्यादेश्चार्हदलुचः ॥ ६४॥८०॥
आर्हदयै यावत् इत ऊर्द्ध प्रकृतेर्वेक्ष्यमाणायाः केवलायास्तदन्तायाश्च संयापूर्वाया वक्ष्यमाणः प्रत्ययः स्यात् । न चेत्प्रकृतिर्लुगन्ता स्यात् । पारायणं चरति पारायणिकः । द्वे पारायणे अधीते द्वैपारायणिकः । अभिविधौ आङो ग्रहणादर्थेऽपि । द्वे सहस्रे द्विसाहस्रम् | अलुच इति किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । अत्र शूर्पाद्वाऽनित्यञ् ।
अनाम्न्यद्विः प्लुप् ॥६|४|१४१ ॥
इति लुप् । द्विशूर्पेण क्रीतं द्विशौपिंकम् । नात्र पुनः शूर्पाद्वाञ् इत्यञ् ।