SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ तदस्य पण्यम् ॥६॥४॥५४॥ अपूपाः पण्यमस्य आपूपिकः । लावणिकः। शिल्पम् ॥।४।५७॥ तदस्येत्यर्थे इकण् । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । वैणविकः। शीलम् ॥४॥५९॥ सदस्येत्यर्थे इकण् । शीलं खभावः । अपूपभक्षणं शीलमस्य आपूपिकः । ताम्बूलिकः। अस्थाच्छत्रादेरञ् ॥॥४॥६॥ अप्रत्ययान्तात्तिष्ठतेश्छत्रइत्यादिभ्यश्च शीलेऽर्थे । आस्था शीलमस्य आस्थः । नैष्ठः । उपसर्गादात इत्यङ् । आन्तस्थः । भिदादित्वाद। छत्रं शीलमस्य छात्रः। प्रहरणम् ॥६॥४॥३२॥ तदस्येत्यर्थे इकण् । असिः प्रहरणमस्य आसिकः । परश्वधाद्वाण ॥६।४।६३॥ पारश्वधः । पक्षे इकण् । पारश्वधिकः । शक्तियष्टेष्टीकण् ॥६४६४॥ शक्तिः प्रहरणमस्य शाक्तीकः । शाक्तीकी । शाक्तिकस्तु शत्या जीवतीति वेतने इकणा सेत्स्यति । नास्तिकास्तिकदैष्टिकम् ॥६॥४॥६६॥ निपाता। भक्ष्यं हितमस्मै ॥४॥२९॥ तदस्मै इत्यर्थे इकण । अपूपा भक्ष्यं हितमस्मै आपूपिकः । नियुक्तं दीयते ॥४॥७॥ अस्मै इत्यर्थे इकण् । अग्रे भोजनमस्मै दीयते इत्याग्रभोजनिकः। श्राणा नियुक्तमस्मै दीयते आणिकः ।। भक्तौदनाद्वा णिकट् ॥६॥४॥७२॥ भक्तमस्मै नियुक्तं देयं भाक्तः। भक्तिकः । पक्षे इकण् । भाक्तिकः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy