SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०३ माथोत्तरपदपदव्याक्रन्दाद्धावति || ६|४|४० ॥ धावत्यर्थे । दण्डमाथं धावति द्वाण्डमाथिकः । सुनातादिभ्यः पृच्छति ॥६|४|४२ ॥ इकण | सुस्नातं पृच्छति सौस्नातिकः । प्रभूतादिभ्यो ब्रुवति ॥६|४|४३ ॥ प्रभूतं ब्रूते प्राभूतिकः । नैपुणिकः । क्रियाविशेषणादयमिकण् । कचिदत्यत्रापि । स्वर्गमनं ब्रूते सौवर्गमनिकः । 1 माशब्दइत्यादिभ्यः ॥६|४|४४ ॥ ब्रुवतीत्यर्थे इकण | माशब्द इति ब्रूते माशब्दिकः । माशब्दः क्रियतामिति ते इत्यर्थः । शाब्दिकदार्दरिकलालाटिककौक्कुटिकम् ||६|४|४५ ॥ शाब्दिकदार्दरिकाथा निपाताः । समूहार्थात्समवेते ||३|४|४६ ॥ इक समाजसमवेते । समाजं समवैति सामाजिकः । सामवायिकः । पर्षदो यः || ६|४|४७॥ पार्षयः । सेनाया वा ॥ ६|४|४८॥ सेनां समवैति सैन्यम् । पक्षे समूहार्थादित्यादिना इकण | सैनिकः । धर्माधर्माच्चरति ||६|४|४९॥ इकण | धर्मं चरति धार्मिकः । आधर्मिकः । षष्ठया धयें || ६|४|५०॥ षष्ठ्यन्ताद्धम् इण । धर्मो न्यायानुवृत्तो जात्याचारस्तत्सहितं धर्म्यम् । शुल्कशालायां धर्म्य शौल्कशालिकम् । आपणिकम् । ऋन्नरादेरण ||६|४|५१ ॥ षष्ठ्यन्तेभ्यो धर्म्येऽर्थे । नुर्नरस्य धर्म्यं नारं, स्त्रियां नारी । महिष्या माहिषम् । अवक्रये ||६|४|५३॥ अवक्रयो भाटकः । तदर्थे इकण | आपणस्याऽवक्रय आणिकः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy