SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०२ हरत्युत्सङ्गादेः ||६|४|२३॥ इकण् । उत्सङ्गेन हरत्यौत्सङ्गिकः । भादेरिट् ||६|४|२४ ॥ भस्त्रया हरति भस्त्रिकः । भस्त्रिकी । विवववधाद्वा ||६|४|२५॥ हरत्यर्थे इकट् । विवर्धन हरति विवधिकः । पक्षे इकण वैवधिकः । वैवधकी। निर्वृत्तेऽक्षद्यूतादेः ||६|४|२०| इकण | अक्षगृतेन निर्वृत्तमाक्षद्यूतिकं वैरम् । भावादिमः || ६|४|२१ ॥ भावप्रत्ययान्तान्निर्वृत्तेऽर्थे इम्प्रत्ययः । पाकेन निर्वृत्तम् पाकिमम् । ओजः सहोम्भसो वर्तते ||६|४|२७|| एभ्य इकण वर्तते इत्यर्थे । ओजसा बलेन वर्तते औजसिकः । साहसिकः । आम्भसिकः । परेर्मुखपार्श्वत् ||६|४|२९॥ वर्ततेऽर्थे इक | परिमुखं वर्तते पारिमुखिकः । परिपार्श्व वर्तते पारिपार्श्विकः । पक्षिमत्स्यमृगार्थाद् नति || ६ | ४ | ३१ ॥ पक्षिणो हन्ति पाक्षिकः । मात्सिकः । मार्गिकः । परिपन्थात्तिष्ठति च ॥ ६|४|३२|| परिपन्धं तिष्ठति हन्ति वा पारिपन्धिकश्चौरः । अवृद्धेर्गृह्णाति गीं ॥६|४|३४ ॥ वृद्धिशब्दं गृह्णात्यर्थे इकण । द्विगुणं गृह्णाति द्वैगुणिकः त्रैगुणिकः । अवृरिति किम् ? वृद्धिं गृह्णाति वाक्यमेव । दशैकादशादिकश्च ॥ ६|४|३६|| दशभिरेकादश गृह्णाति दशैकादशकः । चादिकटि दशैकादशकी । परदारादिभ्यो गच्छति ॥ ६|४|३८ ॥ इकण | पारदारिकः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy