________________
२०१
संसृष्टे ॥६॥४॥५॥ इकण् । मिश्रणमात्रं संसर्गः इति संस्कृता दः । दना संसृष्टं दाधिकम् । पैप्पलिकम् ।
तरति ॥६॥४॥९॥ तेनेत्यनुवर्तते । उडुपेन तरत्यौडुपिकः ।
नौद्विस्वरादिकः ॥६।४।१०॥ नावा तरति नाविकः । नाविका। घटिकः । जविकः । पाहुकः ।
चरति ॥॥४॥११॥ चरधातुर्गत्यर्थो भक्षणार्थश्च ग्राह्यः। हस्तिना चरति हास्तिकः। घाण्टिकः । आकषिकः । दना चरति भुङ्क्ते दाधिकम् । धार्तिकः । आकषः वर्णनिकषोपलः।
पर्यादेरिकट् ॥६।४।१२॥ पर्पण चरति पार्पिकः । पार्पिकी। पङ्गुचारकाष्ठं पपः ।
चूर्णमुद्राभ्यामिनणौ ॥६॥४॥७॥ चूर्णेन संसृष्टाश्चूर्णिनोऽपूपाः । मौद्गः ओदनः । मौद्गी यवागूः ।
श्वगणाद्वा ॥६॥४॥१४॥ चरत्यर्थे इकडा। श्वगणेन चरति श्वगणिकः । श्वगणिकी। इकणि श्वागणिकः ।
पदस्थानिति वा ॥७॥४॥१२॥ पदशब्दान्तस्य श्वादेः शब्दस्येकारवर्जिणितितद्धिते वः प्रागुकारो वा स्यात् । शुन इव पदमस्य श्वापदम् । तस्य विकारः शौवापदम् ।
वेतनादेजीवति ॥४॥१५॥ वेतनेन जीवति चैतनिकः ।
व्यस्ताच क्रयविक्रयादिकः ॥॥४॥१६॥ क्रयविक्रयेण जीवति क्रयविक्रयिकः । ऋयिकः । विक्रयिकः ।
वनात् ॥६॥४॥१७॥ वलं मूल्यम् । तेन जीवति वलिकः ।
आयुधादीयश्च ॥४॥१८॥ आयुधीयः। आयुधिकः । आयुधिका । इकप्रत्ययात् ।
चं. प्र. २६