________________
२००
सेर्निवासादस्य ॥६॥३॥२१३॥ प्रथमान्तात्षष्ठ्यर्थेऽणादिश्चेत्प्रथमान्तो निवासः । मथुरा निवासोऽस्य माथुरः।
आभिजनात् ॥६॥३॥२१४॥ अभिजनानां बान्धवानामयं निवास आभिजनः। तस्मान्निवासादस्येत्यर्थेऽणादिः । मथुराऽस्याभिजनो निवास इति माथुरः।
सिन्ध्वादेरञ् ॥६।३।२१६॥ प्रागुक्तानां सहार्थे । सिन्धुरभिजनो निवासोऽस्य सैन्धवः ।
सलातुरादीयण ॥६।३।२१७॥ तस्मिन्नर्थे । सलातुरोऽभिजनो निवासोऽस्य सालातुरीयः पाणिनिः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्णा औलूखला यवाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुयते चातुरं शकटम् ।।
___ इति शेषाधिकारः॥ आकर्ण्यमापूर्य गवां रसैरसौ नृपेऽपि कुम्भे चरणोन्मुखेऽप्ययात् । प्रभाविशेषं परमाननस्फुरत्प्रबोधनान्मल्लिजिनः सतोऽचतात् ॥१॥
__ इकण ॥६॥४॥१॥ अणः पूर्णो विधिः । अधिकारोऽयमापादम् ।
तेन जितजयद्दीव्यत्खनत्सु ॥६॥४॥२॥ तेनेति तृतीयान्ताज्जिते जयति दीव्यति खनति चार्थे इकण्प्रत्ययः स्यात् । अक्षैर्जितमाक्षिकम् । अर्जयति आक्षिकः । कुद्दालेन खनति कौदालिकः।
संस्कृते ॥६॥४॥३॥ तेनेति तृतीयान्तादस्मिन्नर्थे इकण् स्यात् । दना संस्कृतं दाधिकम् । मारीचिकम् । उपाध्यायेन संस्कृत उक्तार्थप्रापित औपाध्यायिकः । विद्यया संस्कृतो वैधिकः।
कुलत्थकोपान्यादण् ॥॥४॥४॥ नेकण् । कुलत्थैः संस्कृतं कौलत्थम् । कौलमित्यपि कश्चित् । कोपान्त्ये, तित्तिडीकेन संस्कृतं तैत्तिडीकम् । कवर्गोपान्त्यादपीत्यन्ये । मौद्गम् । सारघम् इत्यादि।