SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९९ त्यदादेर्मयट् ॥६॥३॥१५९॥ प्रभवत्यर्थे । तन्मयम् । तन्मयी। दैत्यम् अष्टान्तादिदमयं वापदम् ॥६॥३२१ षष्ठ्यन्तादिदमर्थे यथायोग्यमणादिः । उपगोरिदमौपगवम् । माथुरम् । दैत्यम् । कालेयम् । स्त्रैणम् । पौलः । गव्यम् । पारीणः । भानवीयः । तेन प्रोक्ते ॥३॥१८१॥ प्रकर्षेण व्याख्यातमध्यापितं वा प्रोक्तम् । नतु कृतम् । तस्मिन्नर्थेऽणादिः। भद्रबाहुना मोक्तानि भाद्रबाहवानि उत्तराध्ययनानि । पाणिनिना व्याख्यातं पाणिनीयम् । उपज्ञाते ॥॥३॥१९॥ प्रथमत उपदेशेन विना ज्ञातमुपज्ञातम् । प्रथमतः कृतं वोपज्ञातम् । तस्मिन्न र्थेऽणादिर्यथायोग्यम् । पाणिनिनोपज्ञातं पाणिनीयम् । अमोऽधिकृत्य ग्रन्थे ॥६।३।१९८॥ द्वितीयान्तादणादिः । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः । ज्योतीष्य. धिकृत्य कृतो ग्रन्थो ज्यौतिषम् । द्वन्द्वात्प्रायः॥३॥२०१॥ ईयः । वाक्यपदीयम् । प्रायःकथनादैवासुरम् ।। अभिनिष्क्रामति द्वारे ॥६॥३॥२०२॥ द्वितीयान्तादभिनिर्गच्छत्यर्थे यथायोगमणादिः । तच्चेदभिनिष्क्रामवारं स्यात् । मथुरामभिनिष्कामति ढिल्लीद्वारं माथुरम् । गच्छति पथि दूते ॥६३।२०३॥ अणादिः । मथुरां गच्छति माथुरः पन्थाः दूतो वा। भजति ॥६।३।२०४॥ प्राग्वत् । मथुरां भजति माथुरः । नादेयः । टस्तुल्यदिशि ॥६॥३॥२१०॥ तृतीयान्तात्तुल्यदिगर्थेऽणादिः। सुदाम्ना पर्वतेनैकदिक्सौदामनी विद्युत् । तसिः ॥६३३२११॥ सूर्येणैकदिक सूर्यतः । पार्वतः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy