________________
१९८ प्रायो बहुवरादिकण् ॥६३३१४३॥ तस्य व्याख्याने भवे चार्थे प्राथमिकम् आख्यातिकम् ।
तत आगते ॥६॥३॥१४९॥ अणादिः । माथुरः । गव्यः। ग्रामीणः । ग्राम्यः।
विद्यायोनिसम्बन्धादकञ् ॥६॥३॥१५०॥ आगतेऽर्थे । आचार्यकम् । औपाध्यायकम् । शैष्यकम् ।
पितुर्यों वा ॥३॥१५॥ पित्र्यम् । पक्षे पैतृकम् ।
ऋत इकण ॥६३११५२॥ आगतेऽर्थे । प्रशास्तृकम् । योनिसम्बन्धे मातृकम् । ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्सेतो
लुक् ॥७॥४।७१॥ ऋवर्णान्तादुवर्णान्ताद्दोसूशब्दादिसन्तादुसन्ताद्वकारान्तात्परस्येकप्रत्ययस्येकारलुक शश्वदकस्माद्वर्जम् । पैतृकम् ।। देविकाशिंशपादीर्घसत्रश्रेयस्तत्प्राप्ता वाः ॥७॥४॥३॥
खरेष्वादेः स्वरस्य णिति तद्धिते प्राप्ताऽप्राप्ता या वृद्धिस्तत्मसङ्गे आकारादेशो वा स्यात् । देविकायां भवं दाविकमुदकम् । शांशपः स्तम्भः। भवार्थे शांशपाः स्थलाः । शालयः। दीर्घसत्रे भवं दार्घसत्रम् । श्रेयोऽधिकृत्य कृतं पायसम् द्वादशाङ्गम् ।
गोत्रादकवत् ॥६॥३॥१५५॥ प्रत्ययविधिः पञ्चम्यन्तादागतेऽर्थे । विदानामङ्को वैदः । तथा विदेभ्य आगतं वैदम् । दाक्षम् ।
नहेतभ्यो रूप्यमयटौवा ॥६।३।१५६॥ चैत्रादागतं चैत्ररूप्यम् । चैत्रमयं वा। हेत्वर्थे, सामरूप्यम् । साममयम् ।
प्रभवति ॥६॥३॥१५७॥ प्रत्ययविधिः । हिमवतः प्रभवति हैमवती गङ्गा ।
वैडूर्यः ॥६॥३१५८॥ विरात्प्रभवति वैडूर्यः । निपातोऽयम् ।