SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वासन्तकं वासन्तं सस्यम् । ग्रीष्मवसन्ताद्वा ||६|३|१२०॥ एष्वणादिः । १९७ व्याहरति मृगे ||६|३|१२१॥ जयिनि ||६|३ | १२२॥ भवे ||६|३|१२३|| दिगादिदेहांशाद्यः ||६|३|१२४ ॥ भवेऽर्थे । दिश्यः । वर्ग्यः । अप्सु भवोऽप्सव्यः । निशा व्याहरति नैशिको नैशो वा शृगालः । निशायामुद्देश्यमध्ययनम् निशा तत्र जयी निशा स नैशः । नैशिकः । saffrः । कालाये ऋणे ॥६।३।११३॥ मासे देयमृणं मासिकम् । मध्याद्दिनण्णेयामोऽन्तश्च || ६ |३ | १२६ ॥ मध्ये भवा माध्यन्दिनाः । माध्यमः । मध्यमीयः । जिह्वामूलाङ्गुलेश्वेयः ॥६॥३॥१२७॥ भवे । जिह्वामूलीयः । अङ्गुलीयः । मध्यीयः । वर्गान्तात् || ६ |३|१२८॥ चतुर्मासान्नानि || ६ |३|१३३॥ -भवेऽण चतुर्षु मासेषु भवा चातुर्मासी । अत्र द्विगोरनपत्ये इत्यादिना न प्रत्ययलुप् । अनाम्नी । चतुर्मासेषु भवश्चतुर्मासः । वर्षाकालेभ्य इति कण । तस्य । यज्ञे ञ्यः ||६|३|१३४॥ चातुर्मास्यं यज्ञकर्म | तस्य व्याख्याने च ग्रन्थात् ||६|३|१४२॥ तस्येति षष्ठ्यन्ताद्व्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच्च ग्रन्थाद्भवेऽर्थेऽणादिः । कृतां व्याख्यानं कृत्सु भवं वा कार्तम् । प्रातिपदिकीयम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy