SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ फाल्गुनः। १९६ फल्गुन्याष्टः ॥॥३॥१०६॥ जाते । फल्गुन्योर्जातः फल्गुनः । फल्गुनी स्त्री। अणमपि केचिदिच्छन्ति । बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते टुप् ॥६३३१०७॥ एभ्यः परस्य जातेऽर्थे नक्षत्राणो लुप्स्यात् । बहुलाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि बहुलास्तासु जातो बहुलः । अत्राणो लुपि ज्यादेगौणस्येत्यादिनाऽऽपोऽपि लुक् । चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६३१०८॥ जातेऽर्थे लुप् । चित्रायां जाता चित्रा। रेवत्यां रेवती। पुंसि चैत्रः। प्रोष्ठभद्राजाते ॥ ७॥४॥१३॥ प्रोष्ठभद्रात्परस्य पदशब्दस्य स्वरेष्वादेः स्वरस्य वृद्धिः स्याज्जातेऽर्थे णिति तद्धिते । प्रोष्ठपदासु जातः प्रोष्ठपादः । भद्रपादः । स्थानान्तगोशालखरशालात् ॥६।३।११०॥ जातार्थप्रत्ययस्य लुप् । गोः स्थाने जातो गोस्थानः । गोशाले गोशालाभ्या जातो गोशालः। वत्सशालाद्वा ॥६।३।१११॥ लुप् । बत्सशालाः । वात्सशालाः । नाम्नि द्वावपि विधी। सोदर्यसमानोदयौँ ॥६३।११२॥ निपातौ । समाने उदरे जातः सोदयः समानोदर्यो चा। निर्देशादेव समा. नस्य सभावः। साधुपुष्प्यत्पच्यमाने ॥३॥११७॥ कालायथायोगं प्रत्ययः । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वसन्ते पुरुप्यन्ति वासन्त्यः कुन्दलताः । गृष्मः । पाटलाः शरदि पच्यन्ते । शारदाः शालयः। . उप्ते ॥६॥३॥११८॥ हेमन्ते उप्यन्ते हैमना यवाः। आश्वयुज्या अकञ् ॥६।३।११९॥ आश्वयुज्यामुप्ता आश्वयुज्यकाः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy