________________
१९५ भर्नुसन्ध्यादेरण ॥६३२८९॥ नक्षत्रनाम्न ऋतुनानः सन्ध्यादिकालनानश्च शेषेऽण् । नेकण् । पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः। पुष्ये भवः पौषः। रोहिणः । खातौ सौवातः। ग्रैष्मः । वासन्तः । आमावस्यः । खातेरुदयस्थानं खातीयम् । राधीयम् । शश्वच्छब्दादिकणपि । शाश्वतम् । शाश्वतिकम् ।
संवत्सरात्फलपर्वणोः॥६।३।९०॥ अण् । सांवत्सरं फलम् । सांवत्सरं पर्व ।
हेमन्ताद्वा तलुक् च ॥६॥३॥९॥ अणः सन्नियोगे । हैमनम् । हैमन्तम् । हैमन्तिकम् । तदन्तविधिना पूर्वहैमनम् । अंशाहतोरित्युत्तरपदवृद्धिः।
प्रावृष एण्यः ॥६॥३१९२॥ प्रावृषि भवः प्रावृषेण्यः । प्रावृषि जातः प्रावृषिकः ।
स्थामाजिनान्ताल्लुप् ॥६३।९३॥ एतदन्ताच्छैषिकप्रत्ययस्य लुप् । अश्वत्थामनि जातो भवो वा अश्वत्थामा। अ स्थान इत्यप्रत्ययस्तस्य लुप् । सिंहाजिने जातो भवो वा सिंहाजिनः।
तत्र कृतलब्धक्रीतसम्भूते ॥६।३।९४॥ अणाचा एयणाद्या प्रत्ययाः स्युः। यदन्येभ्य उत्पादितं तत्कृतं, यत्प्रतिग्र. हादिना प्राप्तं तल्लब्धं, यन्मूल्येन स्वीकृतं तत्क्रीतं, यत्सम्भाव्यते सम्माति वा तत्सम्भूतम् । मथुरायां कृतो लब्धः क्रीतः सम्भूतो वा माथुरः।
पथः पन्थ च ॥६३।१०३॥ जाते । पथि जातः पन्धकः । अकप्रत्ययो नाण् । . अश्व वामावास्यायाः ॥६३।१०४॥
जातेऽर्थेऽप्रत्ययोऽश्व स्याताम् । अमावास्यायां जातोऽमावास्यकः । पक्षे सन्ध्याधण् । आमावास्यः।
सिन्ध्वपकरात्काणौ ॥६॥३॥१०१॥ जाते । सिन्धुकः । सैन्धवः । अपकरे कचवरे जातः अपकरकः। आपकरः।
श्रविष्ठाषाढादीयण च ॥६।३।१०५॥ चादश्च । भाणोऽपवादः । श्रविष्ठाभिश्चन्द्रयुक्ताभिर्युक्तः कालः श्रविष्ठः । सासु जातः श्राविष्ठीयः। श्राविष्ठः । आषाढीयः । आषाढः।