SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९४ मध्ये उत्कर्षापकर्षयोरः ॥३३७७॥ उत्कर्षापकर्षयोर्मध्ये वर्तमानमध्यशब्दाच्छेषेऽप्रत्ययः स्यात् । मध्यपरिमाणो मध्यः पण्डितः । मध्या गुणाः । मध्या स्त्री। अध्यात्मादिभ्य इकण ॥६॥३॥७८॥ अध्यात्म भवमाध्यात्मिकम् । समानपूर्वलोकोत्तरपदात् ॥६॥३॥७९॥ समानग्रामे कृतो भवो वा सामानग्रामिकः । ऐहलौकिकः । पारलौकिकः। वर्षाकालेभ्यः ॥६॥३॥८ ॥ वर्षाशब्दात्कालवाचिभ्यश्च शेषे इकण् स्यात् । अणोपवादः । वर्षासु भवो वार्षिकः । मासिकः । आर्द्धमासिकः । सांवत्सरिकः । आह्निकः । देवसिकः । नैशिकः । प्रादोषिकः। शरदः श्राद्ध कर्मणि ॥६।३८१॥ शेषेऽर्थे इकण् । शारदिकं श्राद्धं कर्म । अन्यत्र शारदो मेघः । नवा रोगातपे ॥३८२॥ शारदिकः शारदो वा रोगः । एवमातपः । अन्यत्र शारदं दधि । निशाप्रदोषात् ॥६३३८३॥ ईकण् । नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। चिरपरुत्परारेस्त्रः ॥६३१८५॥ एभ्यरत्नप्रत्ययः । चिरत्नम् । परुत्नम् । पक्षे सायमित्यादिना तनट् । चिर पुरो नः ॥६॥३॥८६॥ पुरा भवं पुराणम् । पुरातनम् । पूर्वाह्नपराह्वात्तनट् ॥६॥३३८७॥ पूर्वाह्ने जातो भवो वा पूर्वाह्नेतनः । कालातनेत्यादिना सप्तम्या वाऽलुप् । पक्षे पौर्वाहिकः। सायश्चिरंप्राहे प्रगेऽव्ययात् ॥३८८॥ नित्यं तनट् । सायन्तनम् ।चिरन्तनम् । निर्देशादस्मान्मान्तवं निपातनात् । प्राहेतनम् । प्रगेतनम् । अनयोरेदन्तत्वं च । दिवातनम् । पुनस्तनम् । प्राक्तनम् । न्तनम्।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy