SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९३ गहादिभ्यः ॥३॥१३॥ गहादिभ्यो यथायोग्यदेशवाचिनः शेषे ईयः स्यात्। अणायपवादः।गहीयः। अन्तस्थीयः । मुखतीयः। पार्श्वतीयः। पृथिवीमध्यान्मध्यमश्वास्य ॥३॥६४॥ देशवाच्य ईयः । प्रकृतेमध्यमादेशश्च । पृथिवीमध्ये जातो भवो वा मध्यमीयः। वायुष्मदस्मदोऽञीनी युष्माकास्माकं चास्यैकत्वे तु तवकममकम् ॥६॥३॥६७॥ युष्माकं युवयोर्वा यौष्माकः । यौष्माकीणः । अस्माकमाक्योवा आस्माकः। आस्माकीनः । पक्षे दोरीयः। युष्मदीयः । अस्मदीयः । तवायं तावकः । तावकीनः । मामकः । मामकीनः । पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः । त्वदीयः । मदीयः। द्वीपादनुसमुद्रं ण्यः ॥६३।६८॥ समुद्रसमीपे द्वीपवाचिनः शेषेऽर्थे ण्यः स्यात् । द्वैप्यो मनुष्यः । द्वैप्यमस्य हसितम् । अन्यत्र नदीसमीपे द्वैपको व्यासः । द्वैपकमस्य हसितम् द्वैपम् । अर्द्धाद्यः ॥॥३॥६९॥ अयम् । सपूर्वादिकण् ॥१३७०॥ पौष्करार्द्धिकः । यौवनार्द्धिकः । दिक्पूर्वात्तौ ॥६३७१॥ येकणौ । पूर्वायम् । पौर्वादिकम् । ___ ग्रामराष्ट्रांशादणिकणौ ॥६॥३॥७२॥ पूर्वार्द्ध भवः पौर्वार्द्धः । पौर्वार्द्धिकः । मध्यान्मः ॥६३७६॥ मध्ये जातो भवो वा मध्यमः । पश्चादाद्यन्ताग्रादिमः ॥६३३७५॥ पश्चिमः । अत्राव्ययत्वादन्त्यखरादिलोपः । आदिमः । अन्तिमः । अग्रिमः। चं. प्र. २५
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy