SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९२ बहुविषयेभ्यः ॥६॥३॥४५॥ देशेभ्यो बहुवचनविषयेभ्यः शेषेऽकम् । नाणादिः । अङ्गेषु जात आङ्गकः। धूमादेः ॥ ४६॥ देशवाचिनोऽस्मादकञ् । धौमकः । तैर्थकः । अदेशार्थेऽपि धूमादिपाठादिदेहानां क्षत्रियाणामिदं वैदेहकम् ।। समुद्रान्नृनावोः ॥३॥४८॥ शेषे । सामुद्रको मनुष्यः । सामुद्रिका नौ । नगरात्कुत्सादाक्ष्ये ॥६३॥४९॥ केनायं मुषित इह नगरे मनुष्येण इतिवचने सम्भाषणे एतन्मोषणं नाग. रके निदेयम् । केनेदं चित्रं लिखितमिह नगरे मनुष्येणेतिवचने सम्भाव्यते एतनागरके । दक्षा हि तत्र ते। अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥६३५१॥ पथ्यादौ वाच्येऽकञ् । आरण्यक पन्थाः न्यायोऽध्यायः इभो नरो वि. हारो वा। गोमये वा ॥३॥५२॥ आरण्यका गोमयाः । आरण्यानि वा गोमयानि । कुरुयुगन्धराद्वा ॥६॥३॥५३॥ कुरुषु भवः कौरवकः । कौरवो वा। कच्छादेनूनृस्थे॥६॥३॥५५॥ अकञ् । काच्छको जनः । काच्छकमस्य हसितम्। कोपान्त्याच्चाण ॥३॥५६॥ इक्ष्वाकुषु जात ऐक्ष्वाकः । पर्वतात् ॥६॥३॥६०॥ ईयः। पर्वतीयो राजा। अनरे वा ॥६॥३॥६१॥ पर्वलीयानि पार्वतानि फलानि । पक्षेऽण् । पार्वतायनिः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy