________________
१९१
शकलादेर्यञः ||६|३|२७॥
यमन्तेभ्यः शकलादिभ्यः शेषेऽञ् स्यात् । शकलस्य वृद्धापत्यं शाकल्यः । तस्य च्छात्रः शाकलः । एवं काण्याः ।
वृद्धे ञः ||६|३|२८॥
दक्षस्य वृद्धापत्यं दाक्षिः । तस्य च्छात्रा दाक्षाः ।
भवतोरिकणीयसौ ||६|३|३०||
1
शेषे । भवतो भवत्या इदं भावत्कम् । भावत्की । भवदीयाः । उकारान्तभवच्छब्दादेः । भवत इदं भावतम् ।
परजनराज्ञोऽकीयः ||६|३|३१||
परकीयः । जनकीयः । राजकीयः । खकीयमितिगहादित्वादीये । दोरीयः ||६|३|३२॥
शेषे । देवदत्तीयः । तदीयः । गार्गीयः । गोनर्दीयः । I
काश्यादेः ||६|३|३५॥
fusaणौ स्तः । काशिकः । काशिका । काशिकी ।
वोशीनरेषु ||६|३|३७॥
सौदर्शनीकः । सौदर्शनिका । सौदर्शनीयः ।
I
उवर्णादिकण् ||६|३|३९॥
उवर्णान्तादेशवाचिनः शेषे इकण | नाणू । शवरजम्ब्वां भवः शाम्बरजाम्बुकः । एतन्नामा ग्रामः ।
ईतोऽञ् ॥६|३|४१॥
ईकारान्तात्प्राग्देशवाचिनो दुसंज्ञकाच्छेषेऽकञ्। काकन्यां भवः काकन्दकः ।
प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् || ६|३|४३ ॥
देशवाचिनो दोः शेषेऽकञ् । मालाप्रस्थकः । नान्दीपुरकः । फाल्गुनावहकः । साङ्काश्यकः । पारे धन्वनि भवः पारेधन्वकः ।
रोपान्त्यात् ॥६|३|४२॥
प्राग्देशवाचिनो दोः शेषेऽकञ् । पाटलिपुत्रकः । ईयस्यापवादः ।