________________
१८९ व्यस्तव्यत्यस्तात् ॥३७॥ अवारपारीणः । व्यस्तादपि पारीणः । अवारीणः ।
राष्ट्रादियः ॥६॥३॥३॥ राष्ट्रे क्रीतः, कुशलो, जातो, भवो वा राष्ट्रियः । अन्यत्र राष्ट्रस्यापखं राष्ट्रिः ।
ग्रामादीनश्च ॥६३॥९॥ ग्रामीणः । चायः । ग्राम्यः।
___ कन्यादेश्वैयकञ् ॥६॥३॥१०॥ कुत्सितात्रयः कत्रयः । तत्र जात्यादिः कात्रेयकः । ग्रामेयकः ।
कुलकुक्षिग्रीवाच्छाऽस्यलङ्कारे ॥६॥३॥१२॥ कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । अवेयको भूषणम् । अवमन्यत्।
__नद्यादेरेयण ॥ २॥ प्राग्जितीये शेषे जातादौ । नादेयः । माहेयः । वाराणसेयः ।
दक्षिणापश्चात्पुरसस्त्यण् ॥६॥३॥१३॥ नाण् । दक्षिणस्यां जातो दाक्षिणात्यः । वा दक्षिणात्प्रथमेत्यादिनादन्तस्वम्।
रङ्कोः प्राणिनि वा ॥६॥३॥१५॥ शेषेऽर्थे टायनण् । राङ्कवायणः । पक्षेऽण् । राङ्कवः । गौः । प्राणिनीति किम् ? राकवः कम्बलः। मनुष्ये तु कच्छादिपाठाद्राङ्कवो मनुष्यः ।
बयुर्दिपर्दिकापिश्याष्टायनण् ॥६॥३॥१४॥ पाहायनः । और्दागनः । पार्दायनः । कापिशायिनी द्राक्षा ।
धुप्रागपागुदक्प्रतीचो यः ॥६॥३॥८॥ अव्ययेभ्योऽनव्ययेभ्यश्च शेषे । दिवि भवं दिव्यम् । प्राच्यम् । अपारूपम् ।
दूरादेत्यः ॥६॥३॥४॥ दूरे भवो दूरेत्यः।