________________
१८८
अपो यञ्वा ॥६।२।५६॥
विकारे । अपां विकारः आप्यम् । अम्मयम् वा ।
लुब्बहुलं पुष्पमूले ॥६२॥५७॥
मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । एष्वणो मयटो वा लुपि ।
ङयादेगणस्याक्किपस्तद्धितलुक्यगोणीसूच्योः || २|४|९५ ॥
ज्यादेः प्रत्ययस्य गौणस्याकियन्तस्य तद्धितलुकि सति लुक्स्यात् । गोणीसूचीशब्दयोस्तु न लुक । आमलक्याः फलमामलकम् । बदर्या बदरम् ।
लक्षादेरण ||६|२|५९॥
विकारेsara वा । विधानसामर्थ्यान्नास्य लुप् । लक्षस्य विकारोऽवयवो वा लाक्षम् । नैयग्रोधम् ।
जम्ब्वा वा ॥६।२।६०॥
जाम्बवम् । पक्षे जम्बूः ।
न द्विरद्रुवयगोमयफलात् ॥६|२|६१ ॥
दुधयं गोमयं फलवाचि च वर्जमन्यस्मान्नाम्नो विकारावयवयोर्द्विः प्रत्ययो न स्यात् । कपोतस्य विकारोऽवयवो वा कापोतः । कापोतस्य विकारोऽवयवो वेति दोरप्राणिन इति मयटू न स्यात् ।
इति प्रकीर्णकप्रत्ययाधिकारः ।
जितो न केनाप्यरिणान्तरेण यः, क्षमा समा येन वशीकृतारिणः । सुदर्शनेऽतिप्रियतामुपेयुषा,
सोऽर्हन्नरः स्यान्नर सिद्धिसम्पदे ॥ १ ॥ शेषे ॥ ६|३|१||
अपस्यादिविकारान्तः प्रागुक्तोऽर्थस्ततोऽन्यः शेषस्तत्राणादिः स्यात् । पारावारादीनः ||६|३|६ ॥
शेषे । पारावारे भवो जातो वा पारावारीणः ।