SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८८ अपो यञ्वा ॥६।२।५६॥ विकारे । अपां विकारः आप्यम् । अम्मयम् वा । लुब्बहुलं पुष्पमूले ॥६२॥५७॥ मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । एष्वणो मयटो वा लुपि । ङयादेगणस्याक्किपस्तद्धितलुक्यगोणीसूच्योः || २|४|९५ ॥ ज्यादेः प्रत्ययस्य गौणस्याकियन्तस्य तद्धितलुकि सति लुक्स्यात् । गोणीसूचीशब्दयोस्तु न लुक । आमलक्याः फलमामलकम् । बदर्या बदरम् । लक्षादेरण ||६|२|५९॥ विकारेsara वा । विधानसामर्थ्यान्नास्य लुप् । लक्षस्य विकारोऽवयवो वा लाक्षम् । नैयग्रोधम् । जम्ब्वा वा ॥६।२।६०॥ जाम्बवम् । पक्षे जम्बूः । न द्विरद्रुवयगोमयफलात् ॥६|२|६१ ॥ दुधयं गोमयं फलवाचि च वर्जमन्यस्मान्नाम्नो विकारावयवयोर्द्विः प्रत्ययो न स्यात् । कपोतस्य विकारोऽवयवो वा कापोतः । कापोतस्य विकारोऽवयवो वेति दोरप्राणिन इति मयटू न स्यात् । इति प्रकीर्णकप्रत्ययाधिकारः । जितो न केनाप्यरिणान्तरेण यः, क्षमा समा येन वशीकृतारिणः । सुदर्शनेऽतिप्रियतामुपेयुषा, सोऽर्हन्नरः स्यान्नर सिद्धिसम्पदे ॥ १ ॥ शेषे ॥ ६|३|१|| अपस्यादिविकारान्तः प्रागुक्तोऽर्थस्ततोऽन्यः शेषस्तत्राणादिः स्यात् । पारावारादीनः ||६|३|६ ॥ शेषे । पारावारे भवो जातो वा पारावारीणः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy