________________
१८६
शम्या लः ॥२॥३४॥ विकारेऽवयवे पाण् स्यात् । तद्योगे लोऽन्तः । शम्या विकारोऽवयवः शामीलं भस्म । शामीली शाखा। .
पयोद्रोर्यः ॥६॥३५॥ पयसो विकारः पयस्यम् । द्रोर्दारुणो विकारो द्रव्यम् ।
उष्ट्रादकञ् ॥६॥३६॥ औष्ट्रिका जवा।
उमोर्णाद्वा ॥६॥३७॥ उमातसी औमकम् औमम् । ऊर्णाया विकार और्णकः और्णः कम्बलः।
एण्या एयञ् ॥६॥२॥३८॥ ऐणेयं सूत्रम् । ऐणेयी दृक् । स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गेऽणेव । ऐणं स्थलम् । एणेरुति।
कौशेयम् ॥६॥३९॥ निपातोऽयम् । बलं सूत्रं वा, न तु भमनि ।
परशव्याघलुक् च ॥६॥२॥४०॥ परशये इदं परशव्यम् । तस्माद्विकारेऽण् । यकारस्य लुक । परशव्यस्थायसो विकारः पारशवम् । असिद्ध एव । यशलुगडं वचनम् । अथेह यग्रहणं किमर्थम् । तदभावेऽपि अवर्णवर्णस्येत्यन्तलुसिद्धौ लुग्ग्रहणादन्त्याभावेऽन्त्यसदेशस्यापि यकारस्य लुगस्तु । सत्यम् । यग्रहणं यशब्दसमुदायस्यैव लोपार्थम् । तेनोसरसूत्रे खरस्य परे प्राग्विधावित्यस्यानुपस्थानाद्यकारलोपेऽवर्णस्येतीकार: लोप: स्यात् ।
कंसीयायः ॥६॥२॥४१॥ कंसायेदं कंसीयम्। तत्रापि विकारे कांस्यम् । व्यप्रत्ययः । तद्योगे यलुक्च।
हेमार्थान्माने ॥३२॥४२॥ अण् । हाटकस्य विकारो हाटको निष्कः । अत्रार्थग्रहणादनेनाणू । हैमो निष्कः । अत्र परत्वा मादिलक्षणोऽन् ।
द्रोर्वयः ॥२॥४३॥ बोर्षिकारो दुवयम् मानम्।