________________
१८३ एषामिन्नन्तानामणि अन्त्यस्वरादेर्न लुक् । पणनं पणः। सोऽस्यास्तीति पणी । तस्य वृद्धापत्यं पाणिनः। ततो यूनि इञ् । पाणिनिः । अत्रभिदाणिजोरित्यनेन त इनो लुप् । तत्र ऋष्यणो ग्रहात्प्रोक्तात् प्रोक्तार्थप्रत्ययान्तानाम्नो वेत्त्य-. धीत इत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप्स्यात् । पाणिनिना प्रोक्तं पाणिनीयम् । दोरीयं ।
तदत्रास्ति ॥६२।७०॥ अस्मिन्नर्थेऽणादिः । उदुम्बराः सन्त्यस्मिन्नौदुम्बरो देशः।
तेन निर्वृत्ते च ॥६२७१॥ चकारादुत्तरत्र चातुर्थिकप्रत्ययविधानम् । कुशाम्बेन निर्वृत्ता कौशाम्बी। निवासादूरभवे इति देशे नाग्नि ॥दाश६९॥
षष्ठ्यन्तानाम्नो निवासोऽदूरभव इत्यनयोरर्थयोरणादिः । शिवीनां निवासः शैवः । विदिशाया अदूरभवं वैदिशं नगरम् । वैदिशो जनपदः । वरणा च असिश्च वरणासी तयोरदूरभवा वाराणसी । पृषोदरादित्वाद्रस्य दीर्घः। तस्य हखः । खलतिकस्य पर्वतस्य दूरभवानि वनानि इतिदेशनामैव तादृक् नाऽत्र प्रत्ययः । नापि लुपलिङ्गसंख्ये अपि प्रसिद्ध एव ।
नद्यां मतुः ॥६७२॥ तस्य निवासः तस्यादुरभवः तदनास्ति तेन निवृत्तं चेत्यर्थचतुष्टये यथाई मतुः स्यात् नद्यां देशे नानि । प्रत्ययान्तं चेन्नदीविषयं देशस्य नाम स्यात् । नदीनामेत्यर्थः । नाण् । उदुम्बराः अस्यां सन्त्युदुम्बरावती नदी । भगीरथेन निर्वृत्ता भागीरथी।
मद्धादेः ॥६॥२॥७३॥ चातुरर्थिको मतुः । देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम स्यात् । अणोपवादः । अनद्यर्थ वचनम् । मधुमान् देशः ।
नडकुमुदवेतसमहिषाड्डिन्मतुः ॥६।२७४॥ नड्डान् । कुमुद्वान् । वेतवान् । महिष्मान देशः ।
नडशादाद्वलः ॥६॥२।७५॥ प्राग्वत् । नडलम् । शावलम् ।
शिखायाः ॥६॥७॥ प्राग्वत् । शिखावलं नगरम् ।