________________
१८२
पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् ||६|२|११९॥
'इक द्वेधी वेत्यर्थे । पदान्ते, पौर्वपदिकः । कल्पान्ते, पैतृकल्पिकः । लक्षणान्ते गौलक्षणिकः ।
अकल्पात्सूत्रात् ॥ ६२॥१२०॥
वृत्तिसूत्रं वेत्ति वार्त्तिसूत्रिकः । अकल्पादिति किम् ? सौत्रः । काल्पसौत्रः ।
अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः || ६ | २|१२१ ॥
धर्मादिवर्ज विद्याशब्दान्तात्तद्वेत्यधीते वेत्यर्थे दकण् स्यात् । सार्पविधिकः । अधर्मादेरिति किम् ? वैद्यः । क्षात्रवैद्यः । त्रिविद्यां वेत्ति वा त्रैविद्यः ।
।
ससर्वपूर्वाल्लुक् ॥६।२।१२७॥
सवार्तिकमधीते सवार्तिकः । ससङ्ग्रहः । अत्राणो लुप् । सकल्पः । अत्रेकणो लुप । एवं सर्ववेदः । सर्वतन्त्रः । अत्राण । कथं द्विवेदः ? द्विगोरनपत्ये खरादेर्लुबू भविष्यति ।
पदोत्तरपदेभ्य इकः ॥६।२।१२५ ॥
तद्वेत्यधीतेऽर्थे । पूर्वपदिकः ।
पदक्रमशिक्षामीमांसासानोकः || ६ |२| १२६॥
पदं वेत्ति पदकः । एवं क्रमकः । शिक्षकः । मीमांसकः ।
अनुब्राह्मणादिन ||६|२|१२३॥
ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । तदधीतेऽनुब्राह्मणी । अनुब्राह्मणिनौ । अणूबाधनार्थमिदम् ।
||६|२|१२८॥
सङ्ख्याका
संख्यायाः परो यः प्रत्ययः कस्तदन्ताद्वेत्यधीतेऽर्थे उत्पन्नप्रत्ययस्य लुप् । अष्टावध्यायाः परिमाणमस्य अष्टकं सूत्रम् । तद्विदन्त्यधीयते वा अष्टकाः पाणिनीयाः । द्वादशा आर्हताः ।
गाथिविदथिकेशिपणिगणिनः ॥ ७|४|३४||