SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७९ आतो नेन्द्रवरुणस्य ॥७|४|२९ ॥ आकारान्तात्परस्य इन्द्रस्य वरुणस्य चोत्तरपदस्य खरेष्वादेः स्वरस्य न वृद्धिः स्यात् । अग्निवेन्द्रश्व अनेन्द्रौ । तौ देवताऽस्य आग्नेन्द्रं सूक्तम् । सौमेन्द्रं हविः । परस्येति किम् ? ऐन्द्राग्नो यज्ञः । ऐन्द्रावरुणं पौर्णमासीतिनिपातनादण् । पूर्णमासा चन्द्रेण युक्ता पौर्णमासी तिथिः । पितृमातुर्व्यडुलं भ्रातरि ॥६।२६२ ॥ पितृभ्राता पितृव्यः । मातुर्भ्राता मातुलः । पित्रोर्डामहट् || ६ |२|६३॥ पितुः पिता पितामहः । मातुर्माता मातामही । षष्ठ्याः समूहे ||६|२९॥ अणादिः । चाषाणां समूहश्चाषम् । भिक्षादेः ||६|२|१० ॥ भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । अनपत्ये ॥७|४|५५॥ अणि परेऽन्त्यखरादेर्न लुक् । युवतीनां समूहों यौवतम् | यौवनमित्यन्यः । शत्रन्तादर्भिव । गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजन्यराज पुत्रादकञ् ॥६।२।१२॥ स्वापत्यसन्तानस्य व्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रं गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यः समूहेऽकन् स्यात् । औपगवानां समूह औपगवकम् । गार्ग• कम् । वार्द्धकम् । मानुष्यम् । न राजन्यमनुष्ययोः ॥ २|४|९४ ॥ अके न यकारलुक् । राजन्यकम् । गाणिक्यः । केदाराण्यच ||६|२|१३॥ चादकञ् । कैदार्यम् । कैदारिकम् । गणिकाया ण्यः ॥ ६२॥१७॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy