________________
१७७
तत्रोद्धृते पात्रेभ्यः ॥६॥२॥१३८॥ शरावे उद्धृत ओदनः शारावः ।
स्थण्डिलाच्छेते व्रती ॥२॥१३९॥ स्थण्डिले शयितुं नियमोऽस्य स्थाण्डिलो व्रती।
संस्कृते भक्ष्ये ॥६॥२॥१४॥ भ्राष्ट्रे संस्कृता भ्राष्ट्राः।
शूलोखाद्यः ॥६२।१४१॥ संस्कृते । शूले संस्कृतश्चटकः शूल्यः । अट्टमन्नमिह प्रोक्तं शूलो विक्रय उच्यते । अदृशला जनपदाः शिवशूलाचतुःपथा इति ॥१॥ शूल्यं शुलाकृतं मांसमिति तु आमिष भोज्यवस्तुनि इति गौडवचनाद् । उखायां संस्कृत मुख्यम्।
दन इकणः ॥दा२।१४३॥ दनि संस्कृतं दाधिकम् ।
वोदश्वितः ॥२॥१४४॥ उदकेन श्वयति उदश्चित् । तत्र संस्कृतमौदग्वितम् । औदश्चित्कम् । द्रकण्येत्र इकार लुप् ।
क्षीरादेयण ॥३।२।१४२॥ क्षीरे संस्कृता भक्षा :रेयी यवागूः ।
सास्य पौर्णमासी ॥दा२।९८॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थेऽणादयः स्युः। प्रथमान्तं चेत्पौर्णमासीविशेपगं स्यात् नानि । पौषी पौर्णमासी अस्य पौषो मासः । अण् ।
___ आग्रहायण्यश्वत्थादिकण् ॥।२।९९॥
नान्नि । प्रत्ययान्तं चेन्नाम स्यात् । आग्रहयणिको मासः। अश्वत्थाऽश्विनी। तद्युक्ता पौर्णमासी अस्य आश्वथिको मासः । चैत्री कार्तिकी।
फाल्गुनीश्रवणाद्वा ॥३२॥१०॥ इकण् । चैत्रिकश्चैत्रो वा श्रवणायाः श्रावणिकः श्रावणो वा ।
- देवता ॥६।२।१०१॥ चं. प्र. २३