SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७३ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥६॥१॥१२७॥ कौण्डिन्य आगस्त्य इत्येतयोर्बहुत्वे गोत्रार्थयत्रोऽणश्चास्त्रियां लुप्स्यात् । सद्योगे कुण्डिन अगस्ति इत्यादेशौ स्तः । कुण्डिन्या अपत्यं कौण्डिन्याः । गर्गाfararea | कौण्डिन्यौ । कुण्डिनः । आगस्त्यः । आगस्त्यौ । अगस्तयः । भृग्वङ्गिरस कुत्सवसिष्ठगोतमात्रेः ||३|१|१२८॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुवे गोत्रेऽर्थे वर्तमानस्य यः प्रत्ययस्तस्यास्त्रियां लुप | भार्गवः । भार्गयौ । भृगवः । एवमङ्गिरसः । कुत्साः । वसिष्ठाः । गोतमाः । एभ्यो णो लुप् । स्त्रियां तु भार्गव्यः । 1 प्राग्भरते बहुस्वरादिनः || ६|१|१२९ ॥ बहुखरान्नान्नो य इज् तदन्तस्य बहुवे प्राग्गोत्रे भरतगोत्रे वर्तमानस्य यः सप्रत्ययस्तस्यास्त्रियां लुप्स्यात् । पान्नागारिः । पान्नागारी | पन्नागाराः । भरते गोत्रे, आर्जुनिः । आर्जुनाः ।. वोपकादेः ||३|१|१३०॥ प्राग्वत् । उपकाः । औपकायनाः । लमकाः लामकायनाः । स्त्रियः औप कायन्यः । तिककितवादी द्वन्द्वे ||३|१|१३१ ॥ अस्मिन् गोत्रापत्ये वर्तमाने बहुत्वे तैकायनि कैतवापनि प्रभृतीनां यः सप्रत्ययस्तस्यास्त्रियां लुप् । तैकायनश्च कैतवायनश्च तिककितवाः । . द्यादेस्तथा ॥६।१।१३२ ॥ आङ्गश्च वाङ्गश्च सौह्मश्च अङ्गवङ्गमाः । अत्र द्विखरलक्षणस्याणो लुप् बहुस्त्रियामित्यतः सूत्रादारभ्य ये लोपनीयाः प्रत्ययास्ते द्र्यादयो ज्ञेयाः । वाऽन्येन ||६|१|१३३॥ द्र्यादेरन्धेन सह द्र्यादीनां द्वन्द्वे बहुत्वे वर्तमाने यः स द्र्यादिप्रत्ययस्तस्य तथा वा लुप्स्याद्यथा पूर्वमङ्गवङ्गदाक्षयः आङ्गवाङ्गदाक्षयः । येकेषु षष्ठयास्तत्पुरुषे यत्रादेव ||३|१|१३४॥ षष्ठीतत्पुरुषे यत्पदं तस्याः षष्ट्या विषये द्वयोरेकस्मिन् वर्तते यन्त्रादिः प्रत्ययस्तस्य तथा वा लुप्स्यात् । यथा पूर्वम् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलम् । गार्ग्यकुलम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy