SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७२ चर्मिवर्सिगारेटकार्कट्यकाकलङ्कावाकिनाच्च कश्चान्तोऽन्त्यस्वरात् ॥६।१।११२॥ 'चर्मिन्वार्मिन्प्रभृतिभ्यः पुत्रान्ताच्च दुसंज्ञकादपत्ये आयनिञ्, तद्योगेऽन्त्यखरात्परः ककारोऽन्तः । चार्मिकार्याणिः । चार्मिणः । संयोगादिनः ॥ इन्नन्तस्य संयोगादेरणि परेऽन्तखरादेर्लुग्न स्यात् । अदोरायनिः प्रायः || ६|१|११३ ॥ त्रिपुष्टानिः । त्रैपुष्टिः । श्रीविजयायनिः । श्रीवैजयिः । कचिन्न । दाक्षिः लाक्षिः । अथ द्रिसंज्ञा । गान्धारिवाल्वेयाभ्याम् ||३|१|११५ ॥ राष्ट्रक्षत्रिया सरूपराजापत्ये द्रिःसंज्ञे दुलक्षणस्यापवादोऽञ् । गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं वा गान्धारः । गान्धारौ । गान्धारयः । पुरुमगधादिव प्रागुक्तो द्रिः । साल्वांशप्रत्यग्रथकलकूटाश्मकादिञ् ॥६।१।११७॥ द्रिः संज्ञः । उदुम्बराणां राजा, उदुम्बरस्याऽपत्यमौदुम्बरिः । बहुषु लुप् । साल्वा नाम जनपदस्तर्दशा उदुम्बरादयः इति राष्ट्रवाचिनः । पाण्डोर्व्यण् ॥३|१|११९॥ स च द्रिः । पाण्डूनां राजा पाण्डोरपत्यं वा पाण्ड्यः । पाण्ड्यौ । पाण्डवः । पाण्डवा इति तु कुरवो जनपदस्तस्य राजा पाण्डुरिति शिवाद्यण् । शकादिभ्यो लुप् ॥६॥१॥१२०॥ शकानां राजा शकस्यापत्यं वा शकः । कुन्त्यवन्तेः स्त्रियाम् ॥ ६|१|१२१ ॥ आभ्यां द्रेस्य लुक स्त्रियां वाच्यायाम् । कुन्तेरपत्यं स्त्री कुन्ती । एवमवन्ती । रञणोऽप्राच्यभर्गादेः ॥६|१|१२३॥ प्राच्यान् भर्गादींश्च मुक्त्वाऽन्यस्मात्परस्यानोऽणश्च द्रः स्त्रियां लुप् । शूरसेनस्यापत्यं शूरसेनी । अणो लुप् । मद्री । मत्सी । अणो लुप् । कुरोर्वा ||६||१२२ ॥ कुरुन्द्रादेस्य वा लुप् । कुरोरपत्यं स्त्री कुरूः । कौरव्यायणी ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy