SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ वादेः स्वरस्य वृद्धिः स्यात् । आदेस्तु प्रशब्दस्य वा । प्रवाहणेयस्यापत्यं युवा प्रवाहणेयः । प्रावाहणेयिः । कल्याणादारिन् चान्तस्य अपत्ये एयण स्यात् । इन् इत्ययं वान्तस्यादेशः । काल्याणिनेयः । कुलटाया वा ॥ ६१॥७८॥ कौलटिनेयः । कौलटेयः । कुलटाऽत्र भिक्षुकी सती । व्यभिचारिण्यां तु क्षुद्रालक्षण एरणेव । कौलटेरः । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । हृद्भगसिन्धोरिति पूर्वोत्तरपदयोर्वृद्धिः । चटकाण्णैरः स्त्रियाम् तु लुप् ॥ लुप् । चटकस्य चटकाया वाऽपत्यं चाटकैरः । १६९ चटका । अजादित्वात् आप् । रूपत्ये ॥ ६|१|७९॥ क्षुद्राभ्य एरण्वा ॥६।११८०॥ अपत्ये | नाणेपणौ । काणाया अपत्यं काणेरः । पक्षे काणेयः । दास्याः, दासेरः । दासेयः । नव्या नाटेरः । नादेयः । गोधाया दुष्टे णारश्च ॥ ६|१|८१ ॥ गौधारः । गौधेरः । योऽहिना गोधायां जन्यते । गोधेयोऽन्यः । जण्टपण्टात् ॥६।१।८२॥ जाण्टारः । पाण्टारः । जाडारः । पाण्डार इत्यपि । चतुष्पाद्भय एयञ् ॥६|१|८३॥ सुरभेः सौरभेयः । शाबलेयः । गृष्ट्यादेः ||३|१|८४॥ रैवतिकः । गृष्टेरपत्यं गाष्र्ष्टयः । वाडवेयो वृषे निपातोऽयम् । वृषोऽत्र यो गर्भे बीजं निषिश्चति । रेवत्यादेरिक‍ || ६ |१|८६॥ वृद्धस्त्रियाः क्षेपे णश्च ॥ ६ |१|८७॥ वृद्धप्रत्ययान्तात्स्त्रीवाचिनः शब्दादपत्ये णः प्रत्ययः स्यात् । चकारादिकण च निन्दायां गम्यायाम् । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः । गार्ग्य अपत्यं युवा गार्गो गार्गिको जाल्मः । भ्रातुर्व्यः || ६|१|८८ ॥ अपत्ये भ्रातुर्व्यः । भ्रातृव्यः । चं. प्र. २२
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy