________________
१६८ मातुश्च मातुर इत्यादेशः । द्वयोर्मात्रोरपत्यं द्वैमातुरः । पाण्मातुरः। धान्यमाने धान्यामानोर्द्वयोरपत्यं द्वैमात्रः ।
कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६॥१॥३२॥
अपत्येऽण् । तद्योगे एतावादेशौ स्तः । कानीनो व्यासः कर्णश्च । त्रिवेण्या अपत्यं त्रैवणः।
विकर्णछागलाद्वात्स्याये ॥१॥१४॥ क्रमादेतदर्थयोरपत्येऽण् । वैकर्णो वात्स्यः । वैकर्णिरन्यः । छागल आत्रेयः । छागलिरन्यः।
शुङ्गाभ्यां भरद्वाजे ॥१३॥ शुङ्गाद शुङ्गाया वाऽपत्येऽण् । शौङ्गो भारद्वाजः । शौङ्गिः शौङ्गेयो वाऽन्यः। नामग्रहणे लिङ्गविशिष्टस्यापीतिसिद्धे परत्वाद्विस्वरादनद्या इत्यस्य बाधाथै शुङ्गाभ्याम् इत्यादीयते।
पीलासाल्वामण्डूकाद्वा ॥॥१॥६८॥ पैलः । पैलेयः । माण्डूकः । माण्डूकेयः । माण्डूकिः ।
ज्याप्त्यूङः ॥६॥१॥७०॥ एयण् । सौपर्णेयः । वैनतेयः । यौवतेयः । कामण्डलेयः । बाहादिस्वात्सौ मित्रः। शिवादित्वात्सापत्नः ।
द्विस्वरादनद्याः ॥१७॥ द्विस्वरान् ड्यात्यूङन्तादनदीवाचिनोऽपत्ये एयण् । दत्ताया अपत्यं दात्तेयः । पार्थ इत्यत्र तस्येदमित्यण् । विकर्णकुषीतकात्काश्यपे अविशेषे एयण् । वैकर्णेयः काश्यपः। वैकर्णिरन्यः। _
भ्रुवो ध्रुव च ॥१७६॥ अमादपत्ये एयण ध्रुव इत्यादेशश्चास्य । भ्रोवेयः।
प्राद्वाहणस्यैये ॥७॥४॥२१॥ प्रशब्दात्परस्य वाहणशब्दस्य ण्ये प्रत्यये णिति तद्धिते परे स्वरेष्वादेः खरस्य वृद्धिः स्यात् । आदेः पूर्वस्य तु प्रशब्दस्य वा वृद्धिः । प्रवाहयतीति प्रवाहणः । तस्यापत्यं प्रवाहणेयः । वाहणेति आकारे वृद्धिकरणं पुंवद्भावनिषेधार्थम् । तेन प्रवाहणेयी भार्या यस्य स प्रवाहणेयीभार्यः इति ।
एयस्य ॥७॥४॥२२॥ एयप्रत्ययान्तावयवात् शब्दात्परस्य वाहणशब्दस्य णिति तद्धिते खरे