________________
१६६
दर्भ कृष्णाग्निशर्मरणशरद्वच्छुनका दाग्रायणत्राह्मणवार्षगण्यवासिष्ठभार्गववात्स्ये || ६ | ११५७॥
सभ्य ग्रायणादिषु वृद्धेष्वपत्येषु आयनण् स्यात् । दर्भस्यापत्यमाग्रायण - वेद्दार्भायणः । अन्यो दार्भिः । कृष्णाद्राह्मणे । काष्र्णायणो ब्राह्मणः । अन्यः कारिणः । शारद्वतायनो भार्गवः । शौनकायनो वात्स्यः ।
जीवन्तपर्वताद्वा ॥ ६ ॥ ११५८ ॥
वृद्धे आपनण | जैवन्तायनः । जैवन्तिः । पार्वतीयः पार्वतिः ।
द्रोणाद्वा ||६||५९॥
द्रौणिः । द्रौणायनः । नात्र वृद्धार्थः ।
विदादेर्वृद्धे || ६ ||४१ ॥
विदस्यापत्यं वृद्धं वैदः । अनन्तरो वैदिः । वैदौ । विदाः ।
राष्ट्र क्षत्रियात्सरूपाद्राजापत्येद्विरञ् ॥६|१|११४॥
राष्ट्रवाचिनो राष्ट्रवाचि सरूपाञ्च क्षत्रियवाचिनः क्षत्रियवाचिसरूपाच्च यथासंख्यं राजनि क्षत्रियेऽपत्ये वाऽञ् स्यात् । स च द्विसंज्ञः स्यात् ।
बहुष्वस्त्रियाम् || ६ |१|१२४॥
द्र्यन्तस्य शब्दस्य बहुषु वर्तमानस्य योऽद्रिस्तस्याऽस्त्रियां लुप्स्यात् । विदेहानां राजानो विदेहाः । पाञ्चालः । पाञ्चालौ । पञ्चालाः । राज्ञोऽपत्यानि पञ्चालाः । स्त्रियां तु पञ्चास्यापत्यानि पाञ्चाल्यः । विद उर्व कश्यप इत्यादि विदादिः । गर्गादेर्यञ् || ६|१|४२॥
1
वृद्धापत्ये । गार्ग्यः । वात्स्यः । अनन्तरो गार्गिः । गोत्र इत्येव । अन्यो गार्गिः । गर्गनाम्नः कस्यापि पुत्रो गार्ग्यः गाग्यौं । बहुत्वे,
यञञोश्यापर्णान्तगोपवनादेः
||३|१|१२६॥
यञन्तस्याञन्तस्य च बहुत्वे गोत्रार्थे यः प्रत्ययस्तस्यास्त्रियां लुप्स्यात् । श्यापर्णगोपवनादिगणं विदादेरन्तर्गतम् विहाय गर्गाः वत्साः विदाः उर्वाः । स्त्रियां तु गार्ग्यः । गोत्र इत्येव । औत्साः । पौनर्भवाः पौत्रा दौहित्राः ।
मधुवभ्रोर्ब्राह्मण कौशिके ॥ ६|१|४३ ॥
वृद्धापत्ये यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकः । arraiseः । नोर्गर्गादिपाठेन सिद्धे नियमार्थमिदम् । गर्गादिफलं तु लोहि