________________
१६५
अजादिभ्यो धेनोः ॥६|१|३४ ॥
आजाघेनविः ।
ब्राह्मणाद्वा || ६|११३५ ॥
ब्राह्मणधेनविः । ब्राह्मणधेनवः ।
भूयः सम्भूयोऽम्भोऽमितौजसः स लुक् च ॥६॥१॥३६॥
भूयसोऽपत्यं भौयिः । साम्भूयिः । आम्भिः । आमितौजः ।
व्यासवरुटनिषादसुधातृविवचण्डालादन्त्यस्य चाकू
॥६।१।३८ ॥
एभ्योऽपत्ये इञ् स्यात् अन्ते चाकू । व्यासस्यापत्यं वैयासकिः ।
शालङ्क्यौदिषाडिवालिः ||६|१|३७||
एते निपाताः । शलङ्कोरपत्यं शालङ्किः । उदकस्यौदिः । षण्णां षाडिः । वाचं वदति वाग्वादः तस्यापत्यं वाड्वालिः ।
य्वः पदान्तात्प्रागैदौत् ॥ ७|४|५ ॥
ति तद्विते वर्णोवर्णयोर्वृद्धिप्रसङ्गे तयोरेव स्थाने वौ यकारवकारौ पदान्ते ताभ्यां प्राक् ऐदौतौ अन्तौ स्याताम् । नैयायिकः । सुष्ठु - शोभनोऽश्वः स्वश्वस्तस्यापत्यं सौवश्विः । वैयाघ्रकिः ।
कुञ्जदेञयन्यः || ६|१|४७॥
वृद्धे । कुञ्जस्यापत्यं वृद्धं कौञ्जायन्यः । कौञ्जायन्यौ । बहुत्वेषु ।
स्त्री बहुष्वायनञ् ॥ ६| १|४८ ॥
कुञ्जादिभ्यो बहुवे वृद्धे आयनञ् स्यात् स्त्रियां तु अबहुत्वेऽपि । कुञ्जस्यापत्यानि कुञ्जायनाः । स्त्री चेत् कौञ्जायनी । अनन्तरापत्ये कौञ्जिः ।
नडादिभ्य आयनण् ॥६।११५३॥
वृद्धे । नाडायनः । चारायणः । अनन्तरे नाडि: ।
हरितादेरञः || ६|११५५॥
वृद्धे । विहितो योऽञ् तदन्ताद्धरितादेः यून्यपत्ये आयनम् । हरितस्यापत्यं युवा हारितायनिः । विदादिरन्तर्गणोऽयम् ।
यञिञः || ६ |११५४॥
गायणः । अनातीत्युक्तेर्यलुक नैव ।
I