SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६५ अजादिभ्यो धेनोः ॥६|१|३४ ॥ आजाघेनविः । ब्राह्मणाद्वा || ६|११३५ ॥ ब्राह्मणधेनविः । ब्राह्मणधेनवः । भूयः सम्भूयोऽम्भोऽमितौजसः स लुक् च ॥६॥१॥३६॥ भूयसोऽपत्यं भौयिः । साम्भूयिः । आम्भिः । आमितौजः । व्यासवरुटनिषादसुधातृविवचण्डालादन्त्यस्य चाकू ॥६।१।३८ ॥ एभ्योऽपत्ये इञ् स्यात् अन्ते चाकू । व्यासस्यापत्यं वैयासकिः । शालङ्क्यौदिषाडिवालिः ||६|१|३७|| एते निपाताः । शलङ्कोरपत्यं शालङ्किः । उदकस्यौदिः । षण्णां षाडिः । वाचं वदति वाग्वादः तस्यापत्यं वाड्वालिः । य्वः पदान्तात्प्रागैदौत् ॥ ७|४|५ ॥ ति तद्विते वर्णोवर्णयोर्वृद्धिप्रसङ्गे तयोरेव स्थाने वौ यकारवकारौ पदान्ते ताभ्यां प्राक् ऐदौतौ अन्तौ स्याताम् । नैयायिकः । सुष्ठु - शोभनोऽश्वः स्वश्वस्तस्यापत्यं सौवश्विः । वैयाघ्रकिः । कुञ्जदेञयन्यः || ६|१|४७॥ वृद्धे । कुञ्जस्यापत्यं वृद्धं कौञ्जायन्यः । कौञ्जायन्यौ । बहुत्वेषु । स्त्री बहुष्वायनञ् ॥ ६| १|४८ ॥ कुञ्जादिभ्यो बहुवे वृद्धे आयनञ् स्यात् स्त्रियां तु अबहुत्वेऽपि । कुञ्जस्यापत्यानि कुञ्जायनाः । स्त्री चेत् कौञ्जायनी । अनन्तरापत्ये कौञ्जिः । नडादिभ्य आयनण् ॥६।११५३॥ वृद्धे । नाडायनः । चारायणः । अनन्तरे नाडि: । हरितादेरञः || ६|११५५॥ वृद्धे । विहितो योऽञ् तदन्ताद्धरितादेः यून्यपत्ये आयनम् । हरितस्यापत्यं युवा हारितायनिः । विदादिरन्तर्गणोऽयम् । यञिञः || ६ |११५४॥ गायणः । अनातीत्युक्तेर्यलुक नैव । I
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy