________________
१६२ यम् । एवमाग्नेयम् । भवदृष्ट इदम् । अणपवादः । आगतं निमित्तमुत्पातः संयोगो हितः ॥ एष्वर्थेषु तथैव ।
प्राग्वतः स्त्रीपुंसान्नञ्नञ् ॥६|१|२५॥
arrant seedsofनदम्यणपवादे च स्त्रीशब्दात्पुंसूशब्दात्क्रमान्नञ्ञौ प्रत्ययौ स्याताम् । स्त्रिया अपत्यं स्त्रैणः । स्त्रीणां समूहः स्त्रैणम् । स्त्रीषु भवः स्त्रैणः । स्त्रीणामियं स्त्रैणी । एवं पौनः । पौंलम् । पौंस्नी । एवं निमित्तोत्पातसंयोगहितेष्वर्थेषु । प्राग्वत इति किम् ? स्त्रियामहं कृत्यं स्त्रिया तुल्यमिति वा स्त्रीवत् । पुंवत् ।
द्विगोरनपत्ये यस्वरादेर्लुवद्विः || ६ |१|२४||
अपत्यर्थादन्यत्र प्राग्जितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः खरादेश्व प्रत्ययस्य सकृल्लुप् स्यात् न तु द्विः । द्वयो रथयोर्द्विरथ्या वाऽयं वोढा द्विरथः । रथात्सादेरिति यः । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । यखरादेः किम् ? पञ्चभ्यो गर्गेभ्य आगतं पश्चगर्गमयम् । अद्विरिति किम् ? पञ्चसु कपालेषु संस्कृतः पञ्चकपालं तस्येदं पाञ्चकपालम् । एवं नैवेदम् । द्विगोरिति किम् ? पौर्वशाला । प्राग्जितादित्येव । द्वौ रथौ वहति द्विरथ्यः । वहतीत्यादिना यः । तस्य न लुप् । अनपत्ये किम् ? द्वैमातुरः ।
न प्राग्जितीये स्वरे ॥ ६|१|१३५ ॥
गोत्रे उत्पन्नस्य बहुषु या लुप् वक्ष्यते सा प्राग्जितीयेऽर्थे यो विधीयते खरादिस्तस्मिन् विषयभूते न स्यात् । गर्गाणां छात्रा गार्गीयाः । वात्सीयाः । गर्गभार्गविका द्वन्द्वात्प्राग्जितीये विवादेऽकच्प्रत्ययस्तस्मिन्नणो लुपप्रतिषेधो निपात्यते । गर्गाणां वृद्धानां भृगूणां च वृद्धानां यूनां विवाहः । गर्गभार्गविका ।
I
तद्वितयस्वरेऽनाति ॥२॥१९२॥
व्यञ्जनात्परस्यापत्यस्य यकारस्य तद्धिते यकारादौ आकारवर्ज खरादौ च परे लुक् स्यात् । गायें साधुः गार्ग्यः । गर्गाणां समूहो गार्गकम् । प्राग्जितीय इति किम् ? अत्रिभ्यो हितः आनीयः । गार्गीयः । गार्गीयमिति दीक्षितः । स्वर इति किम् ? गर्गेभ्य आगतं गर्गमयम् । गर्गरूप्यम् ।
यूनि लुप || ६ | १|१३७॥
यून्यपत्ये विहितस्य प्रत्ययस्य प्राग्जितीये स्वरादौ प्रत्यये विवक्षितेऽनुत्पन्न एव लुपस्यात् । लुपि सत्यां यो यतः प्राप्नोति स तत उत्पद्यते । पांटाहृतः । तस्यापत्यं युवा पांटाहूताः । पांटाहूति । मिमताण्णश्चेति णः । तस्य च्छात्रा इति प्राजितीये खरादौ चिकीर्षितेऽस्य णप्रत्ययस्य लुप् । तत इञन्तं प्रकृतिरूपं सम्पन्नमिति वृद्धेऽञः इत्यञ् । पांटाहृताः ।